________________
११६
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
त्वं नन्द-नन्दनपदं सफलीकुरुष्व,
कान्तापि वर्द्धयतु कान्तिरसो यशोदा ॥ स्नात्राभिषेकसविशेषसरेखभूषा
नेपथ्यतथ्यकरणात्सुभगाकृतित्वम् ॥ ७॥
अन्वयः-वं नन्द. (हे नन्द ! ) त्वं नन्दनपदं सफलीकुरुष्व यशोदा. कान्ताऽसौ ( तव ) कान्तिः स्नानाभिषेकसविशेषसरेखभूषानेपथ्यतथ्यकरणात् सुभगाऽऽकृतित्वं वर्धयतु । कृष्णपक्षे-( हे प्रभो! त्वं नन्दनन्दनपदं सफलीकुरुष्व, यशोदा कान्ताऽपि तव कान्ति-रसौ बर्द्धयतु । ( तथा ) स्नानाभिषेकतथ्यकरणात्सुभगाकृतित्वं (बज) ॥ ७ ॥
व्याख्या--आनयनाऽनन्तरकालिकवृत्तवृत्तान्तमाह-हे प्रभो! त्वं नन्द तीर्थकुल्लक्ष्मीसमृद्धो ज्ञानादिसमृद्धो वा भव यद्वा हे नन्द!= आनन्दरूप! यद्वा नन्दिा आनन्दोऽस्यास्तीति नन्दः अर्शआदित्वा. दच तत्सम्बोधने हे नन्द!-शास्वताऽऽनन्दपरिपूर्ण! त्वं नन्दनपददेवोद्यानरूपस्थानं यद्वा नन्दयति मोक्षलक्ष्मीप्राप्त्या हर्षयतीतिनन्दनं तादृशं पदं तीर्थकरपदं सफलीकुरुष्व-सार्थकं कुरु । यशोदा-कीतिजननी कान्ता मनोहरा असौ तब कान्तिः शोभा. स्वात्राभिषेकसविशेषसरेखभूपानेपथ्यतथ्यकरणात-सात्राभिषेके तत्समय इत्यर्थः सविशेषाणां सातिशयानामुत्तमानां वा सरेखाणां साभोगानां परिपूर्णानामित्यर्थः श्रेणीबद्धानामिति वा भूषाणांतीर्थकरोचितालङ्करणानां नेपथ्येन-प्रसाधनकर्मणा तथ्यकरणात याथार्थ्यापादनात् यद्वा स्नात्राभिषेक-सविशेषसरेखभूषाभिः नेपथ्यस्य-तीर्थकृत्कर्मकमण्डनीकरणस्य तथ्येन यथावद्रूपेण करणात-निष्पादनात् सुभगाकृतित्वं सुभगा सुदृश्या आकृतिः-स्वरूपं यस्य स तद्भावस्तत्वं सुदृश्यरूपतां सौन्दर्यमित्यर्थः वर्द्धयतु इति तीर्थकरपञ्चकसाधारणोऽर्थः ।