________________
आचार्यश्रीविजयामृतत्रिप्रणीता सरणी टीका, ११५ अन्वयः-अष्टापदोन्नतगिरिः महत्त्वं वहते. गोवर्द्धनः धनवानिव दिकप्रसारी. तत्र वासवनामदेवः जातमात्रम् अतिमात्रविबोधपात्रं तं किल आनिनाय.॥६॥
___ व्याख्या- स्नात्रमहोत्सवाधिकरणीभूतं पर्वतं नाम्ना निर्दिशति( तीर्थकृत्पश्चकपक्षे ) अष्टापदोन्नतगिरि अष्टौ धातवः पदानि-स्थानान्यस्य तत् अष्टमु धातुषु पदं प्रतिष्ठाऽस्येति वा अष्टापदं-सुवर्ण तस्य तन्मयो या उन्नतगिरिः सर्वोच्चशैलः सुवर्णशैलः सुमेरुपर्वत इत्यर्थः महत्त्वं तीर्थङ्करस्नात्रमहोत्सवाधिकरणीभवनजनितमहिमानं वहते. किञ्च गोवर्द्धनः-गा-किरणान् स्व-स्वाश्रिततेजांसीत्यर्थः वर्द्धयतीति स तथोक्तः धनवानिव व्यवहारीवेत्यर्थः दिक्प्रसारो अष्टसु दिक्षु प्रसरण व्यापनशीलः व्याप्तसर्वदिक्क इत्यर्थः तत्र पर्वते वासवनाम देवा शकेन्द्रः जातमात्रं-गांनिर्गतमात्रं जन्माऽनन्तरक्षणएवेत्यर्थः अतिमात्रविबोधपात्रं-सातिशयज्ञानभाजनम् अवधिज्ञानस्य तदानीं सद्भावात् तं-पूर्वोक्तम् ऋषभादिम् किल-निश्चयेन आनिनाय ।
बलदेवपक्षे-अष्टापदोन्नतगिरिः अष्टापदनामधेयः उन्नतपर्वतः महत्वं श्रीरामचन्द्रबलदेवजन्मोत्सवाश्रयीभवनजनितमहनीयत्वं वहते शेषं पूर्ववत् ॥
वासुदेवपक्षे-अष्टापदोनतगिरि-अष्टापद: कैलासपर्वत स इव उन्नतः उच्चैः उच्छ्रितो गिरिः शैलः यद्वा अष्टापदः शरभाख्यवन्य. पशुविशेषो यः सिंहमपि विराध्यति तद्युक्त उन्नतगिरिम्=तुङ्गशैल: 'गोवर्द्धनः' तदाख्यः,महत्वं श्रीकृष्णवासुदेवजन्मोत्सवाधारीभवनजन्यमहिमानं वहतें, धनवानिव दिनसारी तत्र वासवनाम देवः जातमात्रमतिमात्रविबोधपात्रं तं वासुदेवम् आनिनाय || अष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ कनके शारिफलके इति अनेकार्थसंग्रहः । श्लेषोपमालंकारौ ॥६॥