SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेवविजयगणिविरचिते सप्तसन्धानमहाकाव्ये दयन्तीत्यर्थः । स्वाभीष्टश्लेषवीक्षादिविरोधी मान उच्यते इति दशरूपके | अर्थश्लेषः उत्प्रेक्षा च । तीर्थकर - बलदेव वासुदेवैतत्रिकपक्षे समानोऽर्थः ॥ ४ ॥ ११४ अन्योन्यवन्य फलमाल्य विभाजनेन, का स्वर्वशा नहि वशीक्रियते जनेन ॥ यत्रोर्वशीजनकृतेन विमोहितेन, सोऽस्मिन् वशीभवति नाम वशीहितेन ॥ ५ ॥ अन्वयः - - अस्मिन् अन्योन्यवन्य फलमाल्यविभाजनेन का स्वर्वशा जनेन न हि वशीक्रियते यत्र उर्वशीजनकृतेन ईहितेन विमोहितेन स वशी वशीभवति॥५॥ व्याख्या -- अस्मिन् गिरौ = वने वा अन्योन्यवन्य फलमाल्यविभाजनेन=अन्योन्यं = परस्परं यद् वन्यानां भवानां फलानां= सस्यानां = माल्यानां पुष्पस्रजां विभाजनेन वण्टनेन विनिमयेन वा का स्वर्वशा=दिव्यस्त्री " वशा वन्ध्या-सुता = योषा = स्त्रीगवीकरिणीषु चे-तिविश्वमेदिन्यो " जनेन = कामिजनेन न वशीक्रियते - स्वायतीक्रियते सर्वापीत्यर्थः । यत्र उर्वशीजनकृतेन = अप्सरोभिर्विहितेन ईहितेन चेष्टितेन चेष्टयेत्यर्थः करणेन विमोहितेन विमोहनेन वश्यतापादनेन हेतुना सः = प्रसिद्धः वशी = जितेन्द्रयोऽपि वशीभवति वश्यतां यातीत्यर्थः । अर्थश्लेषः अन्त्यानुप्रासः । काव्यलिङ्गं चाऽलङ्काराः॥५॥ अष्टापदोन्नत गिरिर्खहते महत्त्वम्, - गोवर्द्धनोऽपि धनवानिव दिक्प्रसारी || तत्राऽऽनिनाय कि वासवनाम देव स्तं जातमात्रमतिमात्रविवोधपात्रम् ॥ ६ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy