________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
११३
रजनीश्वर:-चन्द्रः स एव आस्यम् आस्यमिव वा यस्याः सा तथा. विधा अवनी-अधित्यकादिरूपा पर्वतभूमिः यद्वा वनी-अटवी सुरमणीरमणीप्रणीतैः सुरमण्यः संगीतपण्डितरत्नभूता या रमण्यः-उत्कृष्टस्त्रीविशेषास्तामिः प्रणीतैः पयोजितः गीतस्वरैः निषादादिगानखरैः तनुभृतां शरीरिणाम् अतनूदयं कामोद्रेकं प्रभूताऽऽनन्दसमृद्धिं वा तन्तन्यते-भूयोविस्तारयतीत्यर्थः ।। ३ ।। गोपाः स्फुरन्ति कुसुमायुधचापरोपात्,
कोपादिवाऽम्बुजदृशः कृतमानलोपाः ॥ क्रीडन्ति लोलनयनानयनाच्च दोला
स्वान्दोलनेन विबुधाश्च सुधाशनेन ॥ ४ ॥
अन्वयः-गोपाः विबुधाः कुसुमायुधचापरोपात् कोपादिव कृतमानलोपाः स्फुरन्ति । लोलनयनानयनात् अम्बुजद्दशः सुधाशनेन दोलासु आन्दोलनेन च क्रीडन्ति ॥ ४ ॥ ___व्याख्या-गोपा=गा किरणान् पान्तीति ते तथोक्ताः तेजखिन इत्यर्थः यद्वा गां स्वर्ग पान्ति-रक्षन्तीति ते तादृशाः विबुधाःदेवाः यद्वा गांवज्रास्त्रं पान्तीति ते गोपाः शक्रेन्द्रादयः विबुधाः= देवसामान्याश्च कुसुमायुधचापरोपात कन्दर्पधनुर्मुक्तबाणात् तन्निपातादितिभावः हेतोः अत्रोत्प्रेक्षते-कोपादिव कामस्य क्रोधादिव कृतमानलोपाः कृतः मानस्य स्वाभीष्टश्लेष-वीक्षादिविरोधिकृत्रिमकोपस्य लोपः विनाशो येषां ते तथोक्ताः स्फुरन्ति प्रकाशन्ते । किञ्च लोलनयनानयनात्-लोलनयनानांचञ्चलाक्षीणाम् आसर्वतोभावेन नयनात्-कर्षणात् आनयनात्-आकर्षणेन अम्बुजशः पद्माक्ष्याः मुधाशनेन-अधरामृतपानेन. दोलामु-हिन्दोलादिदोलनयन्त्रविशेषेषु आन्दोलनेन-दोलनक्रियया च क्रीडन्ति-विहरन्ति आत्मानं विनो