________________
..
.....
.
.
..
...
..
....
.
..
....
११२ महोपाध्याय श्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाग्वे गीतस्वरैः सुरमणी रमणीप्रणीतै
स्तन्तन्यते तनुभृतामतनूदयं सा ॥३॥ अन्वयः-यस्मिन् अलं फलललद्दलशालिशालवृन्दाऽवनी. रजनीश्वरास्या सा सुरजनी च सुरमणी रमणीप्रणीतः गीतस्वरैस्तनुभृतामतनूदयं तन्तन्यते । इति मेरुपक्षे । ( अन्यपक्षे ) यस्मिन् अलं फललद्दलशालिसालवृन्दा, सुरजनी रजनीश्वरास्था अवनी ( यद्वावनी ) सुरमणीरमणीप्रणीतैः गीतस्वरैः तनुभृताम् अतनूदयं तन्तन्यते ॥ ३ ॥
व्याख्या---यस्मिन् मेरौ तद्वने चा अलम् अत्यर्थं फलललद्दलशालिसालवृन्दा-फलैः सस्यैः ललद्भिः वायुसंबन्धाच्चलद्भिः विलसद्भिर्वा दलैः पत्रैश्च शालन्ते-शोभन्ते तच्छीलानां शालानांवृक्षाणां वृन्दसमूहो यस्यां सा तादृशी अवनी-सौमेरवीभूमिः, तथा रजनीश्वरास्था चन्द्रानना सा=प्रसिद्धा सुरजनी-दिव्याङ्गना च सुरमणीर. मणीप्रणीतैः सुष्ठ रमयन्ति शोभनं रम्यते आमु वा इति सुरमण्य स्तादृशीभिः रमणीभिः प्रणीतैः विहितैः गीतस्वरैः-गानकालीनगेयपदसमूहवर्तिनिषादादिस्वरैः तनुभृतां प्राणिनाम् अतनूदयम् -अतनोः अनङ्गस्य उदयम् अभिवृद्धि कामोद्रेकमित्यर्थः प्रचुराऽऽनन्दसमृद्धिं वा तन्तन्यते-पुनः पुनरतिशयेन वा तनोति-विस्तारयति जनयतीत्यर्थः । इति सुमेरुपक्षीयोऽर्थः ।।
अष्टापदपक्षे गोवर्द्धनपक्षे च-यस्मिन् अष्टापदशैले गोवर्द्धने च अलम् फलललद्दलशालिनः -फलचलत्पत्रशोमिनः सालाः-वृक्षाः वृन्दाः-तुलस्यश्च यस्यां सा तादृशी, पुनः सुरजनी-सु-शोभना समृद्धा वाऽतिशयिता वा रजनी-हरिद्रा जतुका वा यस्यां सा तथाविधा रजनीश्वरास्या रजनीश्वरस्य-चन्द्रस्य आस्या स्थितिरस्यां सा तादृशी चन्द्रमस ओषधीपतित्वाद्वन्यौषधीषु तत्स्थितिकल्पनात् यद्वा सुरजनीरजनीश्वरास्या-सु-शोभना रजनी-रात्रिः सुरजनी-राका रात्रि