________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. कृष्णवासुदेवपक्षे-यत्र देवगोत्रे गोवर्द्धनपर्वते सा-पर्वत सम्बधिनी इला यत्र अद्भुतशाखिजन्य-चित्रविचित्रवृक्षसमुद्भवं बहुसौरभाढयं प्रचुरसौरभ्ययुक्तसौमनसं-पुष्पसमूहः अस्ति तद् अतिपावनं श्रीभद्र शालवन-श्रीणां-बिल्ववृक्ष-सरलवृक्ष लवङ्गानां भद्राणां देवदारु-कदम्बवृक्ष-स्नुहीरक्षाणां शालानां-सर्जवृक्षाणां, यद्वाऽनुपदोक्त श्री भद्रादीनां शालानां-वृक्षाणां वनं-काननम् अन्तर्वति यस्मिन् तत् तादृम् यद्वाश्रिया भद्रं-मनोहरम् शालवनं यस्मिंस्तत्ता. दृशं, सापाण्डुकम्बलशिलाग्रम्-आ-सर्वतोभावेन पाण्डुकम्बलाः-- प्रस्तरविशेषास्तदात्मिकाः शिलाः पाण्डुकम्बलशिलास्तासां तासु वा अग्रा:-श्रेष्ठाः याः शिलाः ताभिः सहितं, यद्वा पाण्डुकम्बलसदृश्यो या। शिलास्तासामग्राभिः-मुख्याभिः शिलाभिः सहितं, बहुसौरभा ढयं-प्रभूतसौगन्ध्यकलिंत यद्वा सुरभीणां-स्त्रीगवीणां समूहः सौरभ बहुना सौरमेण आढयं-युक्तम् एवं विधं नन्दनन्दनवनं-नन्दश्रीकृष्णपितरं नन्दयति-हर्षयतीतिनन्दनन्दन तादृशं वनं विपिनबिभर्ति-धारयति ॥
श्रीरामचन्द्रबलदेवपक्षे-यत्र देवगोत्रे अष्टापदपर्वते सा इला यत्र हि अद्भुतशाखिजन्यं बहुसौरभाढ्यं सौमनसम् अस्ति तद् अतिपावनं श्रीभद्रशालवनं सा पाण्डुकम्बलशिलाग्रमेतादृशं सानन्दनन्दनवन-सानन्दान्-आनन्दनिर्भरानपि किमुत सोद्वेगान् जनान् नन्दयति-श्रीणयतीति सानन्दनन्दनं तादृशं वनं बिभर्ति । विशेषणानामर्थश्च वासुदेवपक्षीयरीत्याऽवगमेलिमः ॥ २॥ यस्मिन्नलं फलललद्दलशालिशाल
वृन्दावनी सुरजनी रजनीश्वरास्या ॥