________________
१. महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये रमणीजनान् प्रीणन्ति आनन्दयन्ति ।। अत्र सगै वसंततिलकं वृत्तम् । क्षेयं वसन्ततिलकं तभजाजगौग इति तल्लक्षणात् ॥१॥ श्रीभद्रशालवनमप्यतिपावनं तद,
यत्रास्ति सौमनसमद्भुतशाखिजन्यम् ॥ सानन्दनन्दनवनं बहुसोरभाढ्यं,
__ सापाण्डुकम्बलशिलाग्रमिला बिभर्ति॥२॥ अन्वयः-- यत्र तद् अतिपावनं श्रीभद्रशालबनम , अद्भुतशाखिजन्य सौमनसं (वनं), सानन्द नन्दनवनं, बहुसौरभाढ्यं पाण्डुकं (वनंच) अस्ति सा इला बलशिलानं बिभर्ति (इति तीर्थकृत्पञ्चक्रपो) । (वासुदेवपक्षे-) यत्र सा इला (यत्र) अद्भुतशाखिजन्यं (बहुसौरभाढ्यं) सौमनसम् अस्ति. तद् अति. पावनं श्रीभद्रशालवन, सापाण्डुकम्बलशिलानं बहुसौरभाव्यं नन्दनन्दनवन (च) बिभर्ति ! ( श्रीरामबलदेवपक्षे तु) यत्र सा इला ( यन्त्र) अद्भुशाखिजन्य वहुसौरभाग्यं सौमनसम् अस्ति तद् अतिपावनं श्रीभद्रशालवनं सापाण्डुकल. शिला सानन्दनन्दनवनं (च) बित्ति ॥ २॥ ____व्याख्या तीर्थकृत्पश्चकपक्षे-यत्र-यस्मिन् देवगोत्रे सुमेरुपर्वते तद्-प्रसिद्धम् अतिपावनम् अतिपवित्रं सातिशयपावित्र्यजनक वा 'श्रीभद्रशालवनं तदभिधानम् अस्ति-विद्यते एवम् अद्भुतशाखिजन्यम् अद्भुतानिनचित्रविचित्राणि शाखिजन्यानि वृक्षसंभवानि पुष्प-फलादीनि यस्मिस्तत् तादृशं 'सौमनसं'-तदाख्यवनम् अस्ति । तथा नन्दनन्दनवनम् सानन्दम्-आनन्दकारित्वेन आनन्द-हर्षसहित, यद्वा आनन्देन सहितः सानन्दस्तं करोति सानन्दयति. सानन्दयतीति सानन्दम्-आनन्दयुक्तविधायकम् नन्दनवनं-देवो. द्यानम् अस्ति । तथा बहुसौरभाढयं-साऽतिशयसौगन्ध्यशालि पाण्डुकं-तनामकवनम् अस्ति । सा-प्रसिद्धा स्मात्रशैलसम्बन्धिनी इला-पृथ्वी बलशिलानं-बलानां-विशालानां शिलानां मध्ये अयंप्रधानं स्वात्रसिंहासनं बिभर्ति ।।