________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका.
१०९
.
......
.
..
......
..
.
तृतीयः सर्गः
निन्युः सुरासुरगणा अथ देवगोत्रं,
यत्राद्रयः सकलकालमपि प्रफुल्लाः । पुष्पैः फलैरविरलैः प्रबलै दलैश्च,
प्रीणन्ति भूचर-नभश्चर चारुनारीः॥१॥ अन्वयः-अथ सुरासुरगणाः (प्रभु) देवगोत्रं निन्युः यत्र सकलकालमपि प्रफुल्ला: अद्यः अविरलैः पुष्पैः फलैः प्रबलैर्दलैश्च भूचरनभश्चरचारुनारी: प्रीति ॥ १ ॥
__ व्याख्या-अथ दिक्कुमारीकृतमतिकर्माऽन्तरं सुरासुरगणाः सुराणां सौधर्मादिदेवलोकनिवासिदेवानाम् असुराणां-भुवनपत्यादीनां गणाः संघाः 'प्रभु'-मितिशेषः देवगोत्रं देवपर्वतम् तीर्थकृत्पञ्चकपक्षे-मुमेरुशैलम् रामपक्षे–देवानां गोत्रं-पर्वतम् 'अष्टापद' संज्ञकम् अयोध्यापार्श्व उत्सवेषु रमणीयस्थानत्वेन तस्याभिमतत्वात् कृष्णपक्षेदेवात् मुसलधारां दृष्टिंकुर्वतो धनाधनात् इन्द्राद्वा गा: सौरमेयीः गांगोकुलं-व्रजं वा नामैकदेशग्रहणेनामग्रहणात् सत्या भामेतिवत् त्रायते रक्षति स तं 'गोवर्द्धन' नामानं व्रजपार्श्ववर्तमानपर्वतविशेष निन्युः नीतवन्तः । अधुना देवगोत्रं वर्णयति-यत्र-यस्मिन् देवगोत्रे सकलकालमपि-पत्स्वपि ऋतुषु प्रफूल्लाः विकसिताः अद्रयः= वृक्षाः 'अद्रयो द्रुम-शैला-ऽर्काः' इत्यमरः । अविरलैः निरन्तरैः पुष्पैः-चम्पकादिकुसुमैः फलैः आम्रादिभिः प्रबलैः- अङ्करैः दलै = किसलयैश्च यद्वा प्रबलैः प्रबालै =अभिनवपल्लवैः दलै निष्पन्नपत्रैश्च भूचरनभश्वरचारुनारी भूचराणां मनुजतिरश्चां, नभश्चराणां देव-यक्ष-गन्धर्व-किन्नर-विद्याधरादीनां चावी: मनोहराः नारी: