________________
१०८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाब्वे
जिनप्रभुशरीरस्य धाम-स्वयंप्रकाशे त्विषं वा तेंजो वा शक्ति वा सुचिरं चिरकालपर्यन्तम् आलोक्य आलोक्य-निरीक्ष्य इह-अस्मिन् जिनदेवे त्रिलोक्या: जगत्रयस्य राज्य-राजत्वम् आधिपत्यमित्यर्थः न्याय्यं समुचितं-योग्यं अतः अस्मात् भगवतस्त्रिजगदधीशभवनाहत्वाद्धेतोः मेरी अचले भुमेरुपर्वते पयोभिः क्षीरार्णवाहृतनीरैः प्रभोः जिनदेवस्य अभिषेकं-स्मात्रमहोत्सवं कत्तु-सम्पादयितुं ममुपेयुः समुपेताः संगताः सम्भिलिता अभूवन् यद्वा समुपेयुः-सम्प्राप्ताः मेरुमिति शेषः विस्मयोऽद्भुतमाश्चर्य मित्यमरः । धाम शक्ती प्रभाव तेजोमन्दिर-जन्मसु इति विश्वः । पयः क्षीरे च नीरे च इति हेमचन्द्रः ।
अत्र पद्ये शार्दूलविक्रीडितं वृत्तम् ।। सूर्याश्वैर्मसजस्तताः सगुरवः ।
शार्दूलविक्रीडितमितिलक्षणात् ।। २५ ॥ इति श्री शास्त्रविशारद कविरत्न भट्टारकाचार्य विजयामृ. तसूरीश्वर प्रणीतायां सप्तसंधान महाकाव्यसरणीटीकायां
द्वितीयः सर्गः॥