________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. १०० व्याख्या--त्रिजगदिनेशे-त्रिभुवनविद्योतनसूर्यरूपे जिनेशे भुवि-भृतले जाते अवतीर्णे सति. पावनेन-पवित्रतासम्पादकेन चलाचलस्वासनभावनेन-चलाचलं-कम्पनशीलं यत् स्वासनं स्वीय. सिंहासनं तस्य भावनेन विमर्शन जन्मावबोधे जिनजन्मज्ञाने सति स्वामिवरैः अच्युतादिदेवेन्द्रः हृदि-मनसि चलत्वं तरलता संभ्रम लेभे सम्भ्रान्तचित्तता प्राप्त्यर्थः। जिनप्रभो जाते देवेन्द्रस्य सिंहासनं कम्पितं भवतीति जैनसमये सुप्रतीतम् ।। २४ ॥ आकृष्टा भगवद्गुणैरिव दिवः श्रीअच्युताद्याः समे। देवेन्द्राः समुपेयुरत्र मनसा चित्रीयमाणश्रिया ॥ आलोक्याऽद्भुतधामधाम सुचिरं राज्यं त्रिलोक्या इह । न्याय्यं कर्तुमतोऽभिषेकमचले मेरौ पयोभिः प्रभोः॥२५॥ ॥इतिश्री सप्तसन्धाने महाकाव्ये जन्मव
नो नाम द्वितीय सर्गः ॥ अन्वयः-~श्रीअच्युताद्याः समे देवेन्द्राः भगवद्गुणः आकृष्टा इव चित्रीयमाश्रिया मनसा दिवः अत्र आगत्य अद्भुतधामधाम सुचिरम् आलोक्य इह निलोक्या राज्यं न्याय्यम् अतो मेरौ अचले पयोभिः प्रभोः अभिषेक कर्तुं समुपेयुः ॥ २५ ॥
व्याख्या-श्रीअच्युताद्या: अच्युतवासवप्रभृतयः समे सर्वेदेवेन्द्राः सुरेश्वराः भगवद्गुणैः जिनदेवगुणेः आकृष्टाः इव-आकुज्याऽऽनीता इव चित्रीयमाणश्रिया चित्रीयमाणा विस्मयनीयतया प्रतिभाता श्रीः जिनलक्ष्मीर्यस्मिन् तादृशेन मनसा उपलक्षिताः दिवा-धुलोकात् अत्र आगत्येति शेषः अद्भुतधामधाम अद्भुतानां विस्मयावहानां धाम्नां तेजसां शक्तीनां वा प्रभावाणां वा त्विषां वा धाम आश्रयीभृतं जिनमिति शेषः यद्वा अद्भुतं विसयनीयं धान: