SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (४७ ) द्वयरूपेण गुणिनोऽभिधायकं वचनं न सकलादेशः तत्र गुणद्वयविवक्षाया भेदविवक्षामन्तरेणाघटनात् , तदात्मकत्वविवक्षणमपि गुणिनो भागकल्पनेनैव, यत एको भागोऽस्यायं गुणः एकश्चायमित्यतोऽयं गुणी भागद्वयात्मक इत्येवं सखण्डता तस्येति नाखण्डरूपस्य सकलस्य वस्तुनो गुणद्वयरूपेण प्रतिपादनं घटते, एकस्तु गुणः स्वयमखण्डत्वाद् वस्तुनो भागो विभागान्तराविवक्षायां वस्तुस्वरूपवादखण्डतयैव विवक्षितत्वात तद्रूपेण वस्तुप्रतिपादनस्य सकलादेशत्वं घटत एवेत्यभिसन्धानेनाह-गुणद्वयं त्विति, यथाच सत्वासचविधिनिषेधकल्पनया प्रवृत्ताया: सप्तभनया: स्यात्सन्निति प्रथमभङ्ग उक्तयुक्त्या सकलादेशः तथैव नित्यत्वानित्यत्वविधिनेषेधकल्पनाप्रवृत्तसप्तभङ्गीप्रथमभङ्गोऽपि स्यानित्य इति सकलादेशोऽवसेय इत्याह- एवं स्यान्नित्य इत्यपि वाच्यमिति। पर्यायार्थिकनयसमाश्रयणेन प्रवृत्तो द्वितीयभङ्गोऽप्येकरूपेण वस्त्वभिधायकत्वात् सकलादेशोऽवसेय इत्यतिदिशति-तथेति, पर्यायनयाश्रयं पर्यायाथिकनयविषयम् , सकलादेशतयाऽभिमतस्य तृतीयभङ्गस्योपपादनायाह-युगपदिति, गुणद्वयस्य युगपत्प्रधानतया विवक्षायां प्रधानतयोभयप्रतिपादकस्य कस्य'चिच्छब्दस्यावक्तव्यशब्दव्यतिरिक्तस्याभावादभिधेयस्याय. भावापत्तौ सत्यां तथाऽप्रधानतैव तयोरित्यभिसन्धानेनोक्तम्-अप्रधानतायामिति, शब्देनाभिधेयतयाऽनुपात्तत्वादिति च देहलीदीपकन्यायेन पूर्वो
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy