________________
व्यापनं सम्पूर्णस्वरूपास्कन्दनं वस्तुतो न संभवति, तथा सति तदेकगुणमयत्वे गुणान्तरव्याप्तिस्तत्र न स्यात् , गुणत्वसाम्याद् गुणान्तरव्याप्त्यभाववत्तद्गुण व्याप्तिरप्यचतुरस्रत्यत आह-व्याप्तो वक्तुमिष्यत इति, निरंशे वस्तुनि सर्वेऽपि गुणाः स्वस्व निमित्तापेक्षया व्याप्त्यैव वर्त्तन्ते न तु भागेन, तदभावात् , तथाप्येकस्यैव गुणस्य व्याप्तिस्तत्र विवक्षिता, अन्यगुणव्याप्तेस्तत्र सत्त्वेऽपि न विवक्षा, अत एकगुणरूपेण वस्तुप्रतिपत्तिर्घटते, एतत्स्पष्टप्रतिपत्तये त्वाह-विभागनिमित्तस्येति, यद्यपि वस्तुनो भागाभावात् कुतो विभागः कुतस्तरां तद्विभागनिमित्तं किञ्चित् तथापि
भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभाग विभागेन नरसिंहं प्रचक्षते ॥ १ ॥
इति न्यायेन बौद्धकल्पनारूपो विभाग आरोपितोऽ. स्त्येव, ततस्तनिमित्तं गुणान्तरमप्यस्त्येव, तच्च न विवक्ष्यते, अत एकेन गुणरूपेण व्याप्तोऽखण्डो वक्तुमिष्टो भवतीति । एवं सति प्रथमभङ्गः सकलादेशः सम्पद्यते सत्त्वगुणसमाश्रयणादित्याह-तत्रेति, सप्तभङ्गया नयद्वयसमाश्रयणेन प्रवृत्तिरिति । प्रथमभङ्गः कं नयं समाश्रित्य प्रवर्तत इत्यपेक्षायामाह-द्रव्यार्थाश्रयमिति-द्रव्यार्थिकनयविषयमित्यर्थः, प्रथमभङ्गविषयस्य सत्त्वस्य द्रव्याथिकनयविषयत्वे तद्विषयकस्य भङ्गस्य द्रव्याथिकनयापेक्ष्यत्वं प्राप्तमेवेति, गुण