________________
(४५)
कथं सकलादेशत्वमित्याशङ्कानिवृत्तये स्वाह-गुणिनां चेतिअनन्तधर्मात्मकं वस्तु तदाऽवगतं भवेद् यदि येन येन गुणेन सह तस्याभेदः प्रत्येकं तत्तद्गुणात्मकतयातत्प्रतिपत्तिः स्यात्, अन्यथा तद्गुणकोऽयमित्येव न सिध्येत् कुतोऽनन्तगुणात्मकतावानयमिति, वस्तुस्वरूपमात्रप्रतिपत्तिस्त्वविशिष्टा न व्यवहारक्षमेत्याशयः, गुणपदं च धर्ममात्रोपलक्षणम्, गुणानां परस्परभेदमन्तरेण कथमनन्तता, तथा च सति कथमेकस्य वस्तुनो गुणिनो गुणाभेदः, तमन्तरेण कथं गुणात्मना गुणरूपेण तत्प्रतिपत्तिरित्यपेक्षयामाह - इहेति अभेदोपचारत इति, वास्तविकैकगुणाभिन्नत्वे तदन्यगुणाभिन्नत्वाभावतोऽनन्तधर्मात्म-कत्वमेव न स्यादित्येकगुणमयत्वलक्षगतद्गुणाभिन्नत्वस्योपचार एवेत्यभिसन्धिः, एवमपि गुणगुणिभावो न प्रतीयेत, तस्य भेदप्रतिपत्त्यधीनत्वादतः पक्षान्तरमाह-मतुब्लोपेन वेति, तथा च गुणवाचकशब्दान्मतुपो लुग्विधानेन तस्य गुणवाचकशब्दस्य गुणिपरतया गुणविशिष्टत्वेन वस्तुनः प्रतीतिरुपपद्यते, निरंशः अखण्डः, एतेन एकदेशे तस्यैकस्य गुणस्य सद्भावोऽपरदेशे तदन्यगुणस्य सद्भाव इत्येवं भागवृत्तयो न तत्र गुणाः, किन्तु सम्पूर्ण एव वस्तुनि सर्व एव गुणा इत्येकगुणरूपेण न वस्तुभागप्रतिपत्तिः किन्तु अखण्डैकवस्तुप्रतिपत्तिरेवेति सूचितम् एतत्स्पष्टप्रतिपत्तये उक्तं सकल इति, सकलशब्दोऽयं सम्पूर्णार्थको न यावदर्थकः, एकस्याखण्डस्य यावत्वाभावात्, अनन्तधर्मात्मकस्य वस्तुन एकेन गुणरूपेण