________________
भङ्गत्रये प्रतिज्ञातस्य सकलादेशत्वस्योपपादनाय तत्त्वार्थवृत्तिकृदाह___ “यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावात् । इह आत्मादिरेकोऽर्थः सचादेरेकस्य गुणस्यतद् रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासवादेस्तत्रानाश्रयणात् , तत्र द्रव्याथाश्रयं सत्वगुणमाश्रित्य, तदा स्यात् सन्नित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्तिर्भवति, उभयात्मकन्वाद् गुणिनः, नत्वे को गुणो भागवृत्तिरिति, एवं स्यानित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसचमसत्चमनित्यत्वं चाङ्गीकृत्य स्यादसत , स्यादनित्य आत्मेति वाच्यम् । युगपद्धावादुमयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनु पात्तत्वात् स्यादवक्तव्यः" इति।
इदमस्य व्याख्यानं यथा-यदेति तदा सन्नित्युच्यते इत्यग्रेतनतदाशब्दसमाश्रयणेन, अनेकेन गुणरूपेणाभिन्नमेकं वस्तु यदा द्रव्यार्थाश्रयं सत्त्वमाश्रित्योच्यते तदा सकलादेश इति सम्बन्धः, कथमुच्यते इति कथम्भावाकाङ्क्षायामग्रे प्रतिपादितं स्यात्सन्नित्युच्यते इति, अनन्तधर्मात्मकस्य वस्तुनः
थं गुणरूपेणाभिधानं तदन्तरेण कथं स्यात्सन्नित्येवंरूपेण सच्चात्मकगुणसमाश्रयणतस्तदवबोधक्रवचनप्रवृत्तिः, तदभावे