________________
(४३) मङ्गीकृत्वाखण्डधर्मतासमाश्रयणेन । तत्प्रतिपादकमङ्गनां सकलादेशत्वम् , यद्देवसूर्यायभिप्रेतं तत्प्रतिक्षेप्तुरस्य वृत्तिकृतोऽयमभिप्रायः-विशिष्टानां समनियतानामखण्डानामैक्येऽपि विशिष्टस्वरूपावभासो विशेषणविशेष्यस्वरूपभेदावभासनियत एवाभ्युपगन्तव्यः, अन्यथा विशिष्टस्य विशेषणविशेष्याभ्यां सर्वथाभिन्नस्यैवाभ्युपगमे सत्चविशिष्टस्यासत्वस्य नित्यत्वविशिष्टानित्यत्व-भेदविशिष्टाभेदादिस्वरूपतो न भेदेन प्रति भासः स्यात, एवं सति सर्वासामपि सप्तभङ्गीनामाद्यभङ्गत्रयवैलक्षण्यकृतमेव वैलक्षण्यं स्यात्, न त्वन्तिमभङ्गचतुष्टयचैलक्षण्यप्रयुक्तमप्यवभासमानं वैलक्षण्यं युज्येत । न च व्यञ्जकवैलक्षण्यकृतमेव वैलक्षण्यमिति वाच्यम्, विशिष्टस्यावैलक्षेण्ये व्यञ्जकवैलक्षण्यस्यापि वक्तुमशक्यत्वात् , न चैवं सचविशिष्टासवादसत्त्वविशिष्ट सवस्य भेदप्राप्तौ सप्तभङ्गाधिकभङ्गप्रसङ्ग इति वाच्यम् , सत्वविशिष्टासचादिरसचविशिष्टसत्त्वादिना तुल्यवितिवेद्यत्वस्याभ्युपगमेनैकेनैव भङ्गेन तदुभयावगतौ निष्प्रयोजनतया विशेषणविशेष्यव्यत्यासकृतभङ्ग भेदस्योपन्यासानहत्वादतो विशिष्टधर्मप्रतिपादकभङ्गचतुष्टये भेदभानमावश्यकमिति नाभेदप्राधान्यवृत्युपचाराश्रयणसंकथेति, न ततोऽखण्डवस्तुप्रतिपादनमिति न अस्तित्वाद्येकधर्मावमासकत्वतस्तदभिन्नाशेषधर्मावभासकत्वेनान्तधर्मात्मकवस्तुनो योगपद्येन प्रतिपादकत्वलक्षणं सकलादेशत्वं पराभिप्रेतं न वाऽखण्डवस्तुप्रतिपादकत्वलक्षणं वा तेषां तत्समस्तीति आद्य