________________
(४२) प्रथमभङ्गप्रवृत्तिरित्याशयेनाह-शब्दानुपात्तस्येति । पर्यायनयप्रधानतायामित्यत्रापि भावना पूर्ववदवसेया, द्वितीयःस्यादसदेव सर्वम् , स्यादनित्यमेव सर्वमित्यादिद्वितीयभङ्गः। नन्वेवं प्रथमद्वितीयभङ्गयो ज्याभिप्रेतत्वेऽपि यदि स्यादवक्तव्यमेव सर्वमिति तृतीयभङ्गो भाष्याभिप्रेतो न भवेत् , न भवेत् सप्तमङ्गीस्वरूपनिष्पत्तिः । सप्तभङ्गयाः सप्तमभङ्गसमाहाररूपायाः सप्तमङ्गानां सम्भव एव भावात् । भङ्गत्रयभावे च प्रथमद्वितीयभङ्गयोजनया तुरीयभङ्गस्य तृतीयभङ्गे प्रथमभङ्गयोजनया पञ्चमभङ्गस्य तत्रैव द्वितीयभङ्गयोजनया षष्ठभङ्गस्यैवं तत्रैव प्रथमद्वितीययोर्योजनेन सप्तमभङ्गस्य सम्भवतः सम्भवादित्यतस्तृतीयभङ्गस्य भाष्याभिप्रेतत्वं दर्शयतिअर्पित इति, भाष्याभिप्रेततयोपदर्शितानां त्रयाणामेव भङ्गानां सकलादेशत्वं नान्येषां मनानामित्युपदर्शनायाह-एते त्रयः सकलादेशा इति । यत एव आद्यानां त्रयाणां सकलादेशत्वमभीष्टं न तु भङ्गमात्रस्य । तत एवान्यत्र स्यादस्त्येव स्थानास्त्येवेति भङ्गस्य तृतीयतयाऽभिधानेऽप्यत्र तस्य तथाऽभिधाने विकलादेशस्य तस्य सकलादेशत्वं न सम्भवतीति । आद्यौ द्वौ तुरीयश्च सकलादेशा इत्येवमभिधानं वक्तुमुचितं स्यात् तत्र च ग्रन्थगौरवं सकलादेशस्यैकस्याभिधानात् पूर्वमेवैकस्य विकलादेशस्याभिधानं संदर्भविरुद्धं चेत्यतस्तृतीयतया स्यादवक्तव्यमेवेति भङ्गस्योपक्षेपः।विशिष्टधर्माणां भङ्गत्रयव्यतिरिक्तमङ्गप्रतिपाद्यानामतिरिक्तधर्मता