________________
(४१)
अर्पितेऽनुपनीते न वाच्यं सदिति असदिति वेत्यनेन भाष्य. वचनेन तृतीयविकल्यो वक्ष्यते स्यादवक्तव्यमिति" एतद्रुत्यर्थ एवमवगन्तव्यः, 'एवमुक्तेन प्रकारेण' उत्पन्नास्तिकस्येत्यादिभाष्योक्तप्रकारेण सप्तभङ्गीप्रसिद्धिमूलभङ्गद्वयसूचने सति सप्तभङ्गी प्रसिद्धिः सूचिता भवतीत्यभिप्रायकोऽयं धर्मादि द्रव्यं स्यात् सदित्यादिको ग्रन्थः, प्रथमभङ्गः कं नयमाश्रित्य प्रवतेते, कं च नयमाश्रित्य द्वितीयभङ्गः प्रवर्तत इत्याकाङ्घानिवृ. त्यर्थमाह अधुनेति-उत्पन्नास्तिकस्येत्यादिभाष्यवचनेन प्रथमद्वितीयभङ्गसूचनानन्तरमित्यर्थः । विप्रपञ्च्यते-विशिष्य प्रपञ्चतः प्रकटीक्रियते । तत्र प्रथमद्वितीयभङ्गयोर्मध्ये प्रथमविकल्पः स्यात् सदेव सर्वमिति प्रथमभङ्गः, एवं स्यानित्यमेव सर्वमित्यादिः, द्रव्यार्थनयप्रधानता द्रव्यार्थनयविषयीभूतसचनित्यत्वादिभाधान्ये सत्यवसीयत इति तत्प्राधान्यमुपदशयति-प्राधान्यमिति, यद्यपि सत्वादीनां सर्वेषामेव धर्माणां युगपदेव धर्मादिषु भावस्तथापि सत्त्वस्यैव शब्देन विवक्षितत्वाच्छन्दोपात्तत्वलक्षणं शब्दाधीनं प्राधान्यमिति तद्विषयस्य द्रव्यार्थनयस्यापि प्रधानतेति तस्यां सत्यां प्रथमभङ्गः प्रवर्तत इति । असत्वादेः पर्यायार्थिकनयविषयस्य तदानीं सोऽपि शब्देनाविवक्षितत्वान्न शब्दोपात्तत्वलक्षणं प्राधान्यम्, किन्तु सत्त्वमसत्वाविनाभूतमिति शब्दोपात्तेन सत्वेनासत्त्वमपि गम्यते इति प्रथमभङ्गेऽर्थतो गम्यमानस्यासत्वादेरप्राधान्येन तद्विषयकस्य पर्यायार्थनयस्यापि गुणभाव इति तस्मिन् सति