________________
(४०) वृत्त्यभेदोपचाराश्रयणस्य कर्तुं शक्यत्वादेकधर्मप्रतिपादनमुखेन सकलधर्मात्मकवस्तुप्रतिपादनस्य सप्तभिरपि भङ्गैः प्रत्येकं सम्भवात् प्रतिभङ्गं सकलादेशस्वभावा सप्तभङ्गी । एवमुक्तदिशा विकलादेशस्वभावाऽपीति, तत्त्वार्थवृत्तिकृतां मते स्यादस्त्येव सर्वम् , स्यानास्त्येव सर्वम् , स्यादवक्तव्यमेट सर्वम् , इत्येवं त्रयाणां भङ्गानां सकलादेशत्वम् , स्यादस्त्येव स्यान्नास्त्येव सर्वम् , स्यादस्त्येव स्यादवक्तव्यमेव सर्वम् , स्यानास्त्येव स्यादवक्तव्यमेव सर्वम् , स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेव सर्वमित्येवं चतुर्णा भङ्गानां विकलादेशत्वम् , तथाहि-तत्त्वार्थस्य पञ्चमाध्याये___"अर्पितानर्पितसिद्धेः॥५-३१॥" इति सूत्रस्य "उत्पनास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् , अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि चाऽसत्' इति आधभङ्गद्वयप्रतिपादनपरस्य भाष्यस्य व्याख्यायां सप्तभङ्गीस्वरूपव्यवस्थापनपरायां वृत्तिद्भिरभिहितं, यथा-" एवमुक्तेन प्रकारेण धर्मादिद्रव्यं स्यात् सत् , स्यादसत् , स्यानित्यं, स्यादनित्यम् इति प्रतिपाद्यत्वेन सूचितम् ॥ ____ अधुना विप्रपञ्च्यते-तत्र द्रव्यार्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं च शब्देन विवक्षितत्वाच्छब्दाधीनम , शब्दानुपात्तस्यार्थतो गम्यमानत्वादप्रधानता। पयायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः।