________________
( ३९) तम् , तत्प्रतिपादनप्रकारश्चेत्थमवधारयितु सुगमः । तथाहिकालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दैः द्रव्यार्थादेशेन गुणानामनन्तानामप्येकवस्तुगतानामभेदवृत्तिप्राधान्यात् पर्यायादेशेनाभेदोपचाराद् वैकधर्मप्रतिपादनमुखेन सकलधर्मप्रतिपादनतस्तदात्मकवस्तुप्रतिपादकत्वेन प्रत्येकं सप्तानामपि भङ्गानां सकलादेशत्वम् , तथा तैरेव कालादिभिगष्टभिः पर्यायार्थादेशेन भेदवृत्तिप्राधान्याद् द्रव्यार्थादेशेन च भेदोपचाराद् वा सप्तभिरपि भङ्गैः प्रत्येकमेकैकस्यैव धर्मस्य प्रतिपादनतो वस्तुभागस्यैव प्रतिपादकत्वं न वस्तुन इति विकलादेशत्वम् ,तथा च सकलादेशस्वभावत्वात् सप्तभङ्गी प्रतिभङ्गं प्रमाणवाक्यं, विकलादेशस्वभावत्वान्नयवाक्यमिति, देवमूरीणामाशयश्चेत्थमवधार्यः, तथाहि-अस्तित्वादिविशिष्टमव. क्तव्यत्वादिकमप्यर्थान्तरमेव, न तु विशेषणपरिकलितविशेष्यस्वरूपमात्रं, तथा सति विशेषणविशेष्यभावव्यत्ययतः सप्ताधिकधर्माणामपि सम्भवेन सप्तभङ्गीस्वरूपव्याहतिः स्यात् , विशिष्टस्य धर्मान्तरत्वे च विशेषणविशेष्यभावव्यत्ययेनानेकविशिष्टस्वरूप प्राप्तावपि समनियतानां तेषामैक्यमेव न तु भिन्नत्वमिति तादृशानेकविशिष्टप्रतिपादन मेकेनैव भङ्गेनेति न सप्ताधिकभङ्गप्रसङ्गः । अतिरिक्तश्च विशिष्टरूपधर्मोऽखण्ड एक, तदभिव्यञ्जकत्वमेव विशेषणविशेष्ययोरिति न धर्मद्यभेदानुसन्धानस्य नियमतोऽपेक्षेति, यथा च अस्तित्वस्य नास्तित्यस्यावक्तव्यत्वस्य च धर्मान्तरैः समं कालादिभिरष्टभिरभेद