SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (३८) विधिप्रतिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ।। ३८ ॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् ॥ ३९ ॥ ___इति त्रिभिः सूत्रैः शङ्कासमाधानाभ्यामनन्तभङ्गीप्रसङ्गनिवारणपुरस्सरमनन्तानां सप्तभङ्गीनां व्यवस्थापनम्-- ___ " इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥ ४३ ॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ॥ तद्विपरीतस्तु विकलादेशः॥ ४५ ॥" इति त्रिभिः सूत्रैः प्रतिभङ्गं सप्तभङ्गयाः सकलादेशत्वं विकलादेशत्वं च देवसूरय आमनन्ति । ___ कालादयश्चाष्टौ-कालः, आत्मस्वरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दश्च-एषां सङ्ग्राहकं पद्यमिदम् "कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः ॥१॥” इति। दैगम्बरीये सप्तभङ्गीस्वरूपनिरूपणप्रचणे ग्रन्थेऽपि सप्तभनयाः प्रतिभङ्गं सकलादेशत्वं विकलादेशत्वं च प्रतिपादि
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy