SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (३७) रूपाभ्यां वक्तुमनिर्वचनीयम्, अस्त्यत्र प्रदेशे घटः सद्रूपासद्पाभ्यां योगपद्येन स्वरूपं निर्देष्टुमसमर्थत्वाद् विधित्वेऽप्यवक्तव्य इति फलितोऽर्थः । निषेधत्वपूर्वको युगपद्विविधिनिषेधानिर्वचनीयप्रधानोऽयं स्यान्नास्त्येव स्यादवक्तव्यमेवेति षष्ठो भङ्गः, परद्रव्यादिचतुष्टयैरविद्यमानत्वेऽपि सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् भङ्गे सर्व वस्तु जीवाजीवादि परद्रव्यादिचतुष्टयापेक्षया नास्त्यपि विधिप्रतिषेधरूपाभ्यां वक्तुमनिर्वचनीयम् , नास्त्यत्र प्रदेशे घटः सद्रूपासद्रूपाभ्यां योगपद्येन स्वरूपं निर्देष्टुमसमर्थत्वान्नास्तित्वेऽप्यवक्तव्य इति फलितार्थः। अनुक्रमेणास्तित्वनास्तित्वपूर्वको युगपद्विधिनिषेधप्ररूपणानिषेधप्रधानः स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति सप्तमो भङ्गः। स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वेऽपि परद्रव्यादिचतुष्टयापेक्षया नास्तित्वेऽपि सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् भङ्गे सर्व जीवादि वस्तु स्वद्रव्याद्यपेक्षयाऽस्ति परद्रव्याद्यपेक्षया नास्त्यपि समसमयं विधिप्रतिषेधरूपाभ्यां सह युगपत्प्रतिपादयितुमसमर्थम्, यथा स्वद्रव्याद्यपेक्षयाऽस्त्यत्र प्रदेशे घटा, परद्रव्याद्यपेक्षया घटः, विधिनिषेधरूपाभ्यां योगपधेन स्वरूप निर्दष्ट. मशक्यत्वादवक्तव्य इति फलितार्थ: ___ " एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैः सप्तभङ्गीति न चेतसि निधेयम् ।। ३७ ॥
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy