________________
( ३६ ) प्रधानोऽयं तृतीयभङ्गः । युगपद्विधिनिषेधकल्पनया सदंशासदंशयोः समकालप्ररूपणा निषेधप्रधानोऽयं स्यादवक्तव्य एवेति तुरीयो भङ्गः, तथाहि-विधिप्रतिषेधधर्मयोयुगपत्प्रधानभूतयोरेकस्य पदार्थस्य युगपद्विधिनिषेधद्वय इति प्रधानविधानविवक्षायां ताक् शब्दस्यानिर्वचनीयत्वादवक्तव्यं घटादि वस्तु, तस्य विधिप्रतिषेधधर्माक्रान्तस्यापि युगपद्धर्मद्वयस्यावक्तव्यरूपत्वात् युगपद्विरुद्धधर्मद्वयस्याप्रयोगः, शीतोष्णयोरिव सुखदुःखयोरिखानयोः क्रमेणैवार्थप्रत्यायने सामर्थ्यात् , न तु युगपदिति, 'तक्तवतु'सङ्केतितनिष्ठाशब्दवत् सूर्यचन्द्रसङ्कतितपुष्पदन्तशब्दवद् वा, निष्ठाशब्दन पुष्पदन्तशब्देन वा क्रमेणैव तक्तवत्वोः सूर्यचन्द्रमसोश्वार्थयोः प्रत्ययः, एतेन द्वन्द्वादिपदानामपि युगपदर्थप्रत्यायकत्वमपास्तम्, धवखदिरौ स्त इत्यत्र क्रमेणैव ज्ञानंन युगपदिति, तथैव प्रत्ययत्वात् , समकालावाचकत्वात् । अवक्तव्यं जीवाजीनादि वस्तु, युगपद्विधिप्रतिषेधकल्पनया सङ्क्रान्तमेव प्रत्यवतिष्ठते, अस्तित्वनास्तित्वधर्मविशिष्टोऽपि समकालमस्तित्वनास्तित्वाभ्यां वक्तुमनिर्वचनीयो घट इति फलितार्थः । सदंशपूर्वको युगपत्सदंशासदशानिर्वचनीयकल्पनाप्रधानोऽयं स्यादस्त्येव स्याद. वक्तव्यमेवेति पञ्चमो भङ्गः,स्वस्वद्रव्यादिचतुष्टयैर्विद्यमानत्वेऽपि संदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् भङ्गे सर्व वस्तु जीवादि स्वद्रव्यादिचतुष्टयापेक्षया समस्त्यपि विधिप्रतिषेध