________________
( ३५ )
उत्पत्तिरेव भावानां विनाशे हेतुरिष्यते ||
यो जातश्च न च ध्वस्तः स हि नाम न विद्यते ॥ १ ॥ इति
अस्तित्व सिद्धि निबन्धनभूताया उत्पत्तेरेव विनाशापरपर्याय नास्तित्वस्यापि निवन्धनमिति तयोरविनाभावः सिद्धिपथमेति । न चैकेनैव स्वरूपेणास्तित्वनास्तित्वयोरेकत्र स्थाने निरूपणाद् भावाभावयोरैक्यापत्तिः, इष्टत्वादित्येव - मस्तित्व नास्तित्वयोस्तादात्म्यात् प्रथमभङ्गेनास्तित्वप्रतिपादने तदात्मकं नास्तित्वं प्रतिपादितमेवेति द्वितीयभङ्गो नोपादेय एकान्तक्षणिकवादिमते, तथापि स्याद्वादिभिरस्माभिर्येन रूपेण यस्मिन् क्षणे उत्पादो यस्य तेन रूपेण तस्मिन्नेव क्षणे तस्य विनाशो नेष्यते किन्त्वेकस्मिन् क्षणे येन रूपेण यस्योत्पादस्तदन्येन रूपेण तदानीन्तनस्य विनाशो भिन्न भिन्न समय एवं चैकेनैव रूपेणोत्पादविनाशाविति कथञ्चिदस्तित्वनास्तित्व मेदस्यापि सद्भावादस्तित्वाविनाभूतस्यापि नास्तित्वस्य प्रतिपादको द्वितीयभङ्गः सिद्धो भवतीति, तत्र च निषेधप्राधान्यं प्रथमभङ्गाद् विशेषः । सर्व वस्तु क्रमेण स्वद्रव्यादिचतुष्टयाधारपरद्रव्यादिचतुष्टयानाधारविवक्षया प्राप्त पूर्वापरभावास्यां विधिनिषेधाभ्यां प्रधानतया विशेषित स्यादस्त्येव स्यान्नास्त्येवेति तृतीयभङ्गभाग् भवतीति, यथा घटः स्वीयद्रव्याद्यपेक्षया कथञ्चिदस्त्येव स्यात् परद्रव्याद्यपेक्षया नास्त्येव स्यात्, तथा सर्वं वस्त्विति विधिप्रतिषेध