________________
( ३४) घटः, परद्रव्यादिचतुष्टयापेक्षया नास्ति चेत्युल्लेखकः प्रथमो
वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्त-समत्वात् तस्य कुत्रचित् ॥१॥
इतिवचनादवधारणस्य प्रतिभङ्गमवश्यं कर्तव्यम् , यदि स्यादित्यनेकान्तद्योतकमव्ययं तत्र न प्रयुज्यते तदा कुम्भोऽ स्त्येवेत्येतावन्मात्रोक्तौ स्तम्भास्तित्वादिना सर्वप्रकारेणास्तित्वं कुम्भस्य प्रसज्येत इति प्रतिनियतस्वरूपानुपपत्तिः स्यादिति, प्रतिनियतस्वरूपावगतये स्यादित्यब्धयं प्रयुज्यते__ "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते ।
यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥१॥
इति वचनात् तस्यापि सप्तसु भङ्गेषु ग्रहणमावश्यकम् , विधेः प्राधान्याच प्रथमभङ्गस्य विधिरूपतया व्यपदेशः॥ अस्तित्वात्मकविधिधर्माविनामावित्वान्नास्तित्वात्मकनिषेधधर्मस्येति निषेधधर्मप्राधान्यकल्पनया स्थानास्त्येव घट इति द्वितीयभङ्ग प्रवर्तते, यद्यपि नियमेन यदेव साध्यसद्भावेऽस्तित्वं साधनस्य तदेव साध्याभावे साधनस्य नास्तित्वमिति कृतकत्वानित्यत्वयोरिव तादात्म्यलक्षणसम्बन्धादविनाभावित्वमस्तित्वनास्तित्वयोः, एवं च स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वेन सिद्धो घटो मुद्गरसंयोगादिना नष्टः सन् नास्तित्वेन सिद्धो भवति, क्षणविनश्वराणां भावानामुत्पत्तिरेव विनाशे कारणम् , यदुक्तम्