________________
स्यादस्त्येव स्यादक्तव्यमेवेति विधिप्राधान्येन युगपद्विधिनिषेधानिर्वचनीयख्यापनाकल्पनाविभजनया पञ्चमो विकल्प: ॥ १९॥
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधप्राधान्येन युगपद्विधिनिषेधानिर्वचनीयख्यापनाकल्पनाविभजनया षष्ठो भङ्गः ॥२०॥ ___ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमात सदंशासदंशमाधान्यकल्पनया युगपद्विधिनिषेधानिर्वचनीयरव्यापनाकल्पनाविभजनया च सप्तमो भङ्गः ॥२१॥
प्रथमभङ्गप्रतिपादकसूत्रस्यायमर्थः-विधिप्राधान्यविवक्षायां स्यादस्त्येवेत्ययं भङ्गः, स्यादित्यव्ययमनेकान्तद्योतकम् , स्यादित्यनेन कथञ्चितस्वकीयद्रव्यक्षेत्रकालभावचतुष्टयरूपेण, अस्त्येव घटादि वस्तु, नास्त्येवान्यदीयद्रव्यक्षेत्रकालभावचतुष्टयरूपेण, तद्यथा-घटो द्रव्यतः पार्थिवत्वरूपेणास्ति, नास्ति जलादिरूपेण, क्षेत्रतः पाटलिपुत्रकत्वेन अस्ति, नास्ति कान्य कुब्जत्वेन, कालतः शैशिरत्वेन अस्ति, नास्ति वासन्तिकत्वेन भावतोऽस्ति रक्तत्वेन, नास्ति पीतत्वेन, एवकारेणान्यव्यवच्छेदः क्रियते, अस्तित्वावच्छेदकपार्थिवत्वादेविरुद्धं जलवादिकमन्यदतोऽस्तित्वावच्छेदकतया जलवादेव्यवच्छेदः प्रथमभङ्गाभिमतः, न तु जलत्वादिना नास्तित्वमेतद्भङ्गप्रतिपाद्यम् , तस्य द्वितीयभङ्गविषयत्वादिति बोध्यम् , एव. कारोपादानसामर्थ्यात् स्वद्रव्यादिचतुष्टयापेक्षया कथञ्चिदस्ति