SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (३२) वस्तुनि अनन्तधर्मपरिप्रश्नकालेऽनन्तभङ्गीप्रसङ्गस्योन्मेषो न भातीति, अनेन चायं नियम आवेदितो भवति, यदुत अनन्तधर्मालिनितेषु अनन्तवस्तुषु सत्स्वपि प्रतिवस्तु प्रतिधर्म परिप्रश्नकाले एकैकशो वस्तुधर्मे एकैकैच सप्तभङ्गी भवतीति, अनन्तधर्मविवक्षया सप्तभङ्गीनामपि नानात्वमभीष्टमेवेति, अयमर्थः श्रीदेवसरिसूत्रसम्मत एव, अत्रार्थे "विधिनिषेधप्रकारापेक्षया प्रतिपर्याय वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ।। ३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् ॥३९॥” इति सूत्रयुग्मम् , __ स्वरूपतः सप्तभङ्गीप्रतिपादनपराणि चतानि सूत्राणि यथा__ "स्यादस्त्येव सर्वमिति सदंशकल्पनाविभजनेन प्रथमो भङ्गः ॥ १५॥ स्यान्नास्त्येव सर्वमिति पर्युदासकल्पनाविभजनेन द्वितीयो भङ्गः ॥१६॥ ___ स्यादस्त्येव स्यानास्त्येवेति क्रमेण सदंशासदंशकल्पनाविभजनेन तृतीयो भङ्गः ॥१७॥ ____ स्यादवक्तव्यमेवेति समसमये विधिनिषेधयोरनिर्वचनीयख्यापनाकल्पनाविभजनया चतुर्थो भङ्गः ॥१८॥
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy