________________
(३१) " या प्रश्नाद्विधिपयुदासभिधया बाधच्युता सप्तधा, धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया, जल्पन जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात्" । इति,
शब्दश्च विधिनिषेधरूपसदंशासदंशावयवाभ्यां स्वार्थ प्रतिपादयन् सप्तभङ्गीस्वरूपमेव विभ्रति, तथा च श्रीदेवमूरिः प्रमाणनयतत्त्वालोकालङ्कारचतुर्थपरिच्छेदे ।। ___ “सर्वत्राय ध्वनिविधिनिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ।।१३।।" इति सूत्रम् , . सप्तभङ्गीलक्षणप्रतिपादकं तत्रैव सूत्रमिदम्_ "एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥” इति, ____ अस्यार्थः, एकस्य जीवाजीवादेर्वस्तुनः एकशोधर्मविषयपरिप्रश्ने सकलप्रमाणवाध्यत्वेन भिन्नाभिन्नविधिप्रतिषेधविभा. गाभ्यां प्रयुक्तः स्थाच्छब्दाङ्कितः सप्तविधत्वेन वाक्योपन्यासः सप्तभङ्गी इति, विधिः सदंशः, प्रतिषेधोऽसदंशः एकत्र वस्तुनीत्युपादनात् सकलस्य वस्तुनः सदंशासदंशधर्माद्यनेकप्रकारविभजनयाऽनन्तभङ्गीपसङ्गे न सम्भवतीति,एकैकधर्मपर्यनुयोगवशादित्यपादानाद् विधिनिषेधाद्यनन्तधर्माध्यासिते एकस्मिन्