________________
(३०)
पादकः सप्तमभङ्ग एवेति सप्तधर्मभिन्नधर्माभावान्नाष्टमभङ्गः सम्भवतीति नाष्टभङ्गीसम्भव इति ।
ननु सप्तभङ्गनामुपपादनं सप्तधर्मोपपादनतः सप्तधर्मोपपादनत्वावच्छेदक भेदकल्पनया, कल्पना च पुरुषपरतन्त्रा न वस्तुनिबन्धनेति काल्पनिकीयं सप्तभङ्गीति ततः कल्पितानामेव तवर्माणाnare इति चेत्, न यतः प्रतिपर्यायमन्योऽन्यसम्मिश्रिताः सप्तापि धर्माः सन्त्येव न ते कल्पिताः, अनन्तधर्मात्मके वस्तुनि स्वस्य निमित्तापेक्षया वर्तमानास्ते तत्तत्कमनात एव विभज्यमानाः सन्तः स्पष्टप्रतिपत्तिविषया भवितुमर्हन्ति नान्यथेत्येतदर्थमाश्रीयमाणा कल्पना सदर्थविषयिण्येवेति तगोचरतां गताः सप्तापि धर्मा न काल्पनिका इति तदुपदर्शिका सप्तभङ्गी न कल्पनामात्र निबन्धना किन्तु वास्तविक्ये - वेति, ये तु ऋजवस्तान् प्रतीयं सप्तभङ्गी भी मां सोपदर्श्यते तथाहि जैनानां सप्तभङ्गी अवश्यं जिज्ञासितव्या, तेषां निराकाङ्क्ष-सम्पू
बोधकत्वात् सैव प्रमाणवाक्यम्, यतः सप्तभङ्गी लक्षणवाक्या देवाने कान्तात्मकार्थनिर्णयत एकान्तात्मकार्थप्रतिक्षेपद्वारा दुर्दमपरवादिमतङ्गजाः सभायां निगृहीता भवन्ति, तत ए सप्तभङ्गीरहस्यजिज्ञासवः परवादिविजयाभिलाषिणश्च सप्तभङ्गीमभ्यस्यन्ति, सप्तभङ्गया यथावत्सभायामुद्भावनतो विपक्षविजयजनकत्वं तत्खरूपोपदर्शनपुरस्सरं दर्शितं स्याद्वादाभिज्ञैः, यदुक्तम्—