________________
कप्राधान्यविवक्षया बोधको भङ्ग आत्मलाभमासादयन् तयोविशेषणविशेष्यभावसमाश्रयेण प्राप्तं कथञ्चिदस्तित्वविशिष्टनास्तित्वलक्षणं धर्मान्तरं प्रतिपादयतीति, तच्च धर्मान्तरं नास्तित्वविशिष्टास्तित्वस्वरूपमपि भवतीति तेनैवैकेन तृतीयभङ्गेन तयोरुभयोरपि प्रतिपत्तिरिति न तत्प्रतिपत्त्यर्थं भङ्गान्तरमुपतिष्ठते, यतोऽस्तित्वनास्तित्वयोरुभयोरप्येकाधिकवृत्तित्वमेव वैशिष्टयं तचोभयथापि सम्भवतीति, युगप्रत्प्रधानतया विवक्षितयोरस्तित्वनास्तित्वयोर्वचनं न किञ्चिदपि तथा प्रतिपादक समस्तीति कृत्वाऽवक्तव्यत्वधर्म एव प्राप्त इति तत्प्रतिपादक: चतुर्थभङ्ग आगच्छति तत्प्रतिपाद्येऽवक्तव्यत्वे प्रथमभङ्गविषयवैशिष्ट्य-द्वितीयभङ्गविषयदैशिष्टय-तदुभयविषयवैशिष्टयविवक्षातस्तत्तद्विषयवैशिष्टयप्राप्तधर्मान्तरप्रतिपादकाः पञ्चमषष्ठसप्तमभङ्गाः प्रोल्लसन्तीति, एवं च पञ्चमभङ्गप्रतिपाद्ये अस्तित्वविशिष्टावक्तव्यत्वे अस्तित्वस्यावक्तव्यत्वस्य च वैशिष्टयं पुनरुक्तत्वादेव न सम्भवतीति न तत्कृतस्य धर्मान्तरस्य सम्भवः, नास्तित्ववैशिष्टयं यद्यपि तत्र सम्भवति किन्तु ततः प्राप्तस्य धर्मान्तरस्य प्रतिपादकः सप्तमभङ्गेऽस्त्येवेति न भङ्गान्तरस्य ततः समुत्थानं षष्ठभङ्गप्रतिपाद्ये नास्तित्वविशिष्टावक्तव्यत्वे पुनरुक्तत्वादेव नास्तित्वावक्तव्यत्वयोवैशिष्टयाश्रयणं सम्भवतीति तत्प्रयुक्तस्य धर्मान्तरस्य नास्त्येव सम्भवः, अस्तित्ववैशिष्टयस्य तत्र सम्भवेऽपि ततः प्राप्तस्य धर्मान्तरस्य प्रति