SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( २८ ) " तृतीयवचनयोः पुनरुक्ततेति नेयं सप्तभङ्गी युज्यत इति वाच्यम्, यतः प्रथमभङ्गे यदपेक्षया वक्तव्यत्वं प्रतीयते तद्वक्तव्यत्वावच्छेदकनिमित्तभिन्नावच्छेदकनिमित्तापेक्षयाऽवक्तव्यत्वं द्वितीयभङ्गे प्रतीयते, तुरीयभङ्गे तु युगपत्प्रधानीभूतवक्तव्यत्वावक्तव्यत्वयोरेकेन शब्देन कथनं न सम्भवतीत्यतो यदवक्तयत्वं तद्वितीयभङ्गविषयादवक्तव्यत्वाद् भिन्नमेव प्रतीयत इति भिन्नार्थकत्वान्न द्वितीयचतुर्थभङ्गयोरविशेषः, एवं द्वितीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तत्तृतीयभङ्गेऽवक्तव्यशब्देन प्रतीयते, तुरीयभङ्गप्रतिपाद्यं न्त्ववक्तव्यत्वं पश्चमभङ्गेऽवक्तव्यशब्देन प्रचीयते इति तृतीयपञ्चमभङ्गयोरप्यविशेषः, तथा षष्ठमभङ्गेप्रथमावक्तव्यशब्देन द्वितीयभङ्गं प्रतिपाद्यमवक्तव्यत्वं प्रतीयते द्वितीयावक्तव्यशब्देन तद्भिन्नमेव तुरीयभङ्गप्रतिपाद्यमवक्तव्यत्वं प्रतीयते इत्यर्थभेदान्न पौनरुक्त्यम्, एवं सप्तमesपि द्वितीयवचनेन द्वितीयभङ्गप्रतिपाद्यमवक्तव्यत्वं प्रतीयते तृतीयवचनेन तुरीयभङ्गप्रतिपाद्य मवक्तव्यत्वं प्रतीयत इति न पौनरुक्त्यमिति । यथा चास्तित्वपर्यायं समाश्रित्य विधिनिषेधकल्पनया प्राप्तेषु धर्मेषु नष्टमो वक्तव्यत्वधर्मो न प्रविशतीति न स्याद्वक्तव्य एव इत्यष्टमभङ्गस्य सम्भवस्तथा, तथा तत्र धर्मान्तरस्यापि न प्रवेश इति धर्मान्तरप्रतिपादकस्यापि भङ्गस्य नैव सम्भवः, यतः प्रथमभङ्गेन कथञ्चिदस्तित्वलक्षणविधिधर्मः प्रतिपाद्यते इति प्रथमद्वितीयभङ्गौ स्वातन्त्र्येण विधिनिषेधप्रतिपादकौ, प्रतिपाद्य योर्विधिनिषेधयोरुभयोरपि क्रमि . "
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy