________________
( २७ ) वचनप्रतिपाद्यं भवति वस्तु तत्तद्रूपं कथञ्चिदस्तित्वादिकमेव, एवं च कथञ्चिदस्तित्वादिधर्मप्रतिपादका भङ्गा एवं कथञ्चिदवक्तव्यत्वप्रतिपादका इति नास्तित्वधर्ममधिकृत्य तद्विधिनिषेधाभ्यां विवक्षाभेदेन प्रवृत्त मङ्गसमूहमध्ये वक्तव्यत्वभङ्गोऽधिकः प्रवेशमर्हति अस्तित्वादिसप्तकभिन्नधर्मान्तरेणापि वक्तव्यत्वं सम्भवति किन्तु तद्धर्मान्तरं नास्तित्वस्य विधिनिषेधात्मकमिति धर्मान्तरात्मकवक्तव्यत्वप्रतिपादको भङ्गः स्यादस्त्येवेत्यादिसप्तभङ्गानन्तर्भूतोऽप्युदासीनत्वादेव नात्र प्रवे टुमईतीति यथा च स्वातन्त्र्येणास्तित्वपर्यायो घटादेस्तथा स्वातन्त्र्येण वक्तव्यत्वपर्यायोऽपि समस्येवेति । स्वतन्त्रवक्तव्यत्वधर्ममवलम्ब्य तद्विधिनिषेधविवक्षातः स्याद्वक्तव्य एवं घटः स्यादवक्तव्य एवं घटः स्याद्वक्तव्य एव स्यादवक्तव्य एव घटः स्यादवक्तव्य एवं घटः स्याद्वक्तव्य एव स्यादवक्तव्य एवं घटः स्यादवक्तव्य एव स्यादवक्तव्य एवं घटः स्याद्वक्तव्य स्यादवक्तव्यस्यादवक्तव्य एव च घटः इत्येवं सप्तभङ्गयन्तरस्य सम्भवोऽभ्युपगम्यत एव, यावन्तः एकस्य वस्तुनः पर्यायाः तावतीनां सप्तभङ्गीनां सम्भवोऽभिमत एवास्माकम् तेन पर्यायाणामानन्त्यादनन्ता सप्तभङ्गीत्येव युक्तम्, नत्वनन्तभङ्गीति वोध्यम्, न च वक्तव्यत्वपर्यायमवलम्ब्योपदर्शितायां सप्तभङ्गयां द्वितीयचतुर्थभङ्गयोरविशेष एव एवं तृतीयपञ्चमभङ्गयोरपि, एवं षष्ठभङ्गे स्यादवक्तव्य एव स्यादवक्तव्य एवेति एवं सप्तमभङ्गे द्वितीय
,
1
1
-