________________
(२६) शबोधजनकतापर्याप्त्यधिकरणवाक्यत्वलक्षणप्रमाणवाक्यत्वमपि सप्तमङ्गयामेव समस्तीति सप्तभङ्गीवाक्यमेव निराकारपरिपूर्णार्थबोधमिति ॥
ननु यथाऽवक्तव्यत्वं धर्मान्तरं नथा वक्तव्यत्वमपि धर्मान्तरं किं न भवेदिति तद्विवक्षया स्थाद्ववक्तव्य एव घट इत्य. ष्टमभङ्गः किं न स्यात् ? तनिवायाः घटः किं वक्तव्यत्ववानपि भवतीत्याकाङ्कायाः तन्मूलसंशयस्य घटोवक्तव्यत्ववान्न वेत्येवंरूपस्यास्त्येव संभवः, तस्य वक्तव्यत्वाभावनिष्ठप्रकारतानिरूपितवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकदोलायमानबोधरूपस्य स्याद्वक्तव्य एव घट इतिवाक्यजन्यो यः कथञ्चिद्वक्तव्यत्वनिष्ठमतियोगिताकाभावत्वावच्छिन्नप्रकारत्वानिरूपितकथञ्चिद्वक्तव्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकनिर्णयात्मको बोधस्तन्निवत्यत्वेन तादृशे बोधजनकोक्तवाक्यनिवर्त्यत्वस्यापि सम्भवेनोक्तसंशयनिवर्तकस्य स्याद्वक्तव्य एव घट इत्यष्टमवाक्यस्यापि प्रयोक्तव्यत्वं प्रसज्येत, यदा च वक्तव्यस्य धर्मान्तरस्य सम्भवः तदा तस्य कथञ्चिदस्तित्वादिभिर्धर्मेस्सममपि प्रत्येक वैशिष्ट्यस्य सम्भवतस्तत्तद्धर्मविशिष्टवक्तव्यत्वारब्धधर्मविवक्षातः स्यादस्त्येव स्याद्वक्तव्य एव घट इत्यादिभङ्गान्तराणामपि सम्भवात् सप्तमङ्गीवाक्यमेव प्रमाणवाक्यमिति न स्यादिति चेत् , न, यतो वचनप्रतिपाद्यत्वमेव वक्तव्यत्वम्, तच्च कथञ्चिदस्तित्वादिधर्मेण वचनप्रतिपाद्यत्वादेव निर्वहति, तथा च यदूपेण