________________
{ ४८) त्तराभ्यामन्वेति, ततश्च यद्यप्यस्ति तयोः प्राधान्येन युगपद्विवक्षा, तथापि तथा विवक्षायां तथा तत्प्रतिपादकः शब्द एव न कोऽपि विद्यत इत्यप्रधानतैव प्राप्ता, एवं युगत्प्रधानतया विवक्षितगुणद्वयरूपेण गुणिनोऽभिधायकमपि वचनं नास्तीत्यवक्तव्य एव सः, एवं च युगपत्प्रधानतया विवक्षितगुणद्वयमव्यक्तरूपतापनमेकगुणरूपमेव, तद्रूपेण धर्मिणोऽभिधायकत्वात् स्यादवक्तव्य एवेति तृतीयभङ्गेऽपि सकलादेश इत्याशयः। विशेषतः प्रथमद्वितीयभङ्गप्रपञ्चनं स्यात्पदैवकारपदप्रक्षेपप्रयोजनोपवर्णनसंवलितं तक्वार्थवृत्तावुपदर्शितं विशेषाथिभिः तत्रैव विलोकनीयम् ,ग्रन्थगौरवभयानात्रोपदयते।स्यादवक्तव्य एवेति तृतीयभङ्गामिधित्सया भाष्यकृदुक्तस्य "अर्पितेऽनुपनीते न वाच्यं सदिति असदिति वा” वचनस्य तत्वार्थवृत्तिः पुनरित्थम्--युगपदात्मन्यस्तिनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणाभिधातुमविवक्षिते, वाच्यंन जातुचित् सदात्मतत्त्वमसदात्मतत्त्वमिति वा, वाशब्दो विकल्पार्थः अर्पित विशेष्यते-कीदृशेऽपिते ? अनुपनीते, कथमनुपनीते ? सामर्थ्यात क्रमेणाविशेषिते, क्रमेण त्वपणे प्राविकल्पावेव स्याताम्, अतोऽवश्यन्तया युगपदभिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिन्नस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणात्मकाभ्यां वक्तुमिष्टत्वादवाच्यम्, तद्विषयस्यार्थस्य शब्दस्य च भावात् , अयं च विकल्पस्तत्वान्यत्व सच्चासम्भवात किलावक्तव्यमेवेत्येवं