________________
( ४९ ) विधैकान्तव्यावर्तनार्थः- स्यादवक्तव्य एवात्मा अवक्तव्यशब्देनान्यैश्च षड्भिर्वचनैद्रव्यपर्यायविशेषैश्च वक्तव्य एव, अन्यथा सर्वप्रकारावक्तव्यतायामवक्तव्यादिशब्दैरप्य वाच्यत्वादनुपाख्यः स्यात्, अतीत विकल्पद्वयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यान्नास्तीति स्वपरपर्यायान्तरैकधर्मसम्बन्धार्पणात्काल भेदेनोक्तम्, अधुना युगपद्विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति, १ उच्यते- न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत यतोऽर्थान्तरवृत्तैः पर्यायैरवर्तमानमननुभवँस्तान् पर्यायान् द्रव्यं ब्रवीत्येका विवक्षा, अपरा तु विवक्षा निजैः पर्यायैः स्वात्मनि वृत्तैर्वर्त्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति, एवमेतयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवो वचनविशेषातीतत्वाच्चावक्तव्यं वाचकशब्दाभावात् एतदुक्तं भवति - अस्तित्वनास्तित्वयोर्विरुद्धयोरेकत्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद् विधस्यार्थस्याभावात्तस्य वाचकः शब्दोऽपि नास्त्येवेति तथा कालाद्यभेदेन वर्त्तनं गुणानां युगपद्भावः, तच्च यौगपद्यमेकान्तवादे नास्ति, यतः, कालात्मरूपार्थसम्बन्धोपकार गुणिदेश संसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात्, तत्रैकान्तवादे विरुद्धानां गुणानामेकस्मिन् काले न वचचिदेकत्रात्मनि वृत्तिर्दृष्टा ॥ १ ॥ न जातुचित प्रविभक्ते
४
-