________________
(५०)
सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे, येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगुणानामात्मस्वभावो नान्योन्यात्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाभिधानम् २ ॥ न चैकत्रार्थे विरुद्धाः सदसच्चादयो वर्तन्ते यतो ह्यभिन्नैकात्माधारत्वेना भेदे सति सदसत्त्वे युगपदुच्येयाताम् ॥३॥ न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वाच्छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बन्धिनोः कारणयोभिन्नत्वात् , न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात्, न सम्बन्धकृतं योगपद्यमस्ति, तदभावाच नैकशब्दवाच्यत्वम् ॥ ४ ॥ न चोपकारकृतो गुणानामभेदः, यस्मात्रीलरक्ताद्युपकर्तृगुणाधीन उपकारः, ते च स्वरूपेण, भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विविक्तोपकारभाजा, एवं सदसच्चयोर्भेदात् सत्त्वेनोपरक्तं सत्, असचोपरक्तमसदिति दुरापेतमुपकारसारूप्यम् , यत. स्तदभेदेन शब्दो वाचकः स्यादिति ॥५॥ नाप्येकदेशे गुणिन आत्मन उपकारः समस्ति, येनैकदेशोपकारेण सहभावो भवेत् गुणगुणिनोरुपकारकोपकार्यत्वे नीलादिगुणः सकल उपकारका, समस्तश्च घटादिरुपकार्यः, न चैकदेशे गुणो गुणी वा, यतो देशसहभावात्कश्चिच्छब्दो वाचकः कल्प्येत, ॥ ६॥ न चैकान्तवादिनां सदसत्त्वयोः संसृष्टमनेकान्तात्मक रूपमस्ति, अवधृतैकान्तरूपत्वात् , यथैव हि शबलरूपयतिरिक्तौ शुक्लकृष्णावसंसृष्टौ नैकस्मिन्नर्थे वर्तितुं