________________
(५१)
समर्थों, एवं सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति ॥ ७ ॥ नाप्येकशब्दः शुद्धः समासजो वाक्यात्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्वे योगपद्येन ब्रवीति एवं तर्हि स्वार्थवत्सचमप्यसत्कुर्यात , तथैव सच्छब्दोऽपि स्वार्थवदसदपि सत् कुर्यात, विशेषशब्दत्वाच सदित्युक्ते नासदभिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः । अथ युगपत्सदसच्छन्दौगुणद्वयस्य वाचकाविष्येते, तत समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेत् , तत्र च समासवाक्यं न वाचकं तत्र द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवदस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात् , क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणत्वम् , यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणापक्षेपणादीनाञ्च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्यात्, द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात् , अन्यथा द्वन्द्वाभावात् , अत्र चात्मा विशेष्यद्रव्य सदसतोगुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम्-सन्नात्माऽसन्नात्मेत्यतो न द्वन्द्वः । ननु च द्रव्येऽपि स्याद्वादोऽस्ति न गुणविषय एव, यथा स्याद्घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद्विशेषणविशेष्यभावापत्तेद्रव्यस्य विशेष्यत्वात् , स्याद्घटः इदं वस्त्विति वाक्यञ्च वृत्तेरभिन्नार्थ, केवलं विभक्तिश्रवण्णा द्रूपेण भिद्यते, अतो वाक्येनापि युगपत्प्रयोगासम्भवः । समानाधिकरण