________________
(५२) समासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयो सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत् , अत्र च सदसतोगुणत्वात्परस्परं भेदे सति न सामानाधिकरण्यम् , अद्रव्यशब्दत्वात् , सामान्यविशेषरूपेणास्थितत्वान्नास्ति विशेषणविशेष्यसमानाधिकरणसमासः। कर्मधारयश्चार्थयोरिष्यते, न चान्यत्प्रतिपदविहितं समासलक्षणमस्ति, तस्मात्समासाभावायुगपत्प्रयोगाभावः तद्वाक्येऽपि सामर्थ्याभावाद् वृत्यनुरोधिवाक्यत्वाच्चातो न कर्मधारयः । नाप्याख्यातादिपदसमुदायो वाक्यं-संश्चासंश्वात्मेति, भवत्यादिक्रियासम्बन्धात् , तत्र सामान्यशब्दो युगपदनेकमर्थमभिदध्यात् , न चाभिदधीत, “ अभिहितानां सामान्यशब्देन । विशेषाणां नियमार्था पुनः श्रुतिः" इति न्यायात् , न वा ब्रूयादनेकमर्थमभिदधानोपायासम्भवात् , “ तन्मात्राकाङ्क्षणाद्भेदः स्वसामान्येन चोज्झितः" इति न्यायात् , सामान्यशब्देष्वेवं, न विशेषशब्देषु धवखदिरादिषु, विशेषशब्दास्तु वाक्ये प्रयुज्यमानाः केवलाः स्वार्थमेव ब्रुवते संश्वासंश्चेति, न त्वनेकमर्थ, स्वार्थमात्रामिधानान्न सहगुणद्वयाभिधायिता । ननु च वाक्ये द्वयोरपि शब्दयोरेकतया युगसद्भावः, तन्न, पदेभ्यो वाक्यशब्दस्य शब्दान्तरत्वात् , एक एव हि शब्द इष्यते वाक्यम, तस्य चार्थान्तरेणकेनैव प्रतिभारूपेण भाव्यम्, अतोऽत्रापि गुणद्वयवचनस्य युगपच्छब्दद्वयस्थासम्भव इति ॥ ८॥ एवमुक्ताकालादियुगपदावा