________________
( ५३ ) सम्भवात्समासवाक्यलौकिकवाक्ये युगपच्छब्दयोयोरर्थयोश्च वृत्त्यसम्भवाद्युगपद्विवक्षायामवाच्य इत्येवं सर्वैकान्तावक्तव्यप्रतिषेधद्वारेण भाष्यकृता तृतीयविकल्पप्रणयनमकारि प्रेक्षापूर्वकारिणा "कथञ्चिदवक्तव्यः कथञ्चिद्वक्तव्योऽवक्तव्यादिशब्दैरात्मेति निरूपितम्” इति, “ सङ्ग्रहव्यवहाराभिप्रायाअयः सकलादेशाः, चत्वारस्तु विकलादेशाः समवसेया ऋजुसूत्रशब्दसमभिरूडैवंभूतनयाभिप्रायेण" इत्यपि तच्चार्थवृत्तावेव दर्शितम्, प्रकारान्तरेण आद्यानां त्रयाणां सकलादेशानां भावना-"पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा, आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् , असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा, आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वाऽसत , तदुभयपर्याय वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा, आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाच्यं सदसदिति वा," इति भाष्यम्य वृत्तौ विस्तरतः कृता विशेषार्थिभिरवलोकनीया । चतुर्णा विकलादेशानां भङ्गानां "देशादेशेन विकल्पयितव्यमिति" इति भाष्येण सूचनं कृतं तत्स्पष्टीकरणार्थी तत्वार्थवृत्तिर्यथा "इति करणो विकल्पेयत्ताप्रतिपादनार्थः, पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्तेर्विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवादितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति, अयमभिप्रायो भाष्यकारस्थ लक्ष्यते-सकलादेशसंयोगाच्चतुर्णां निष्पत्तिरिति सुज्ञाना॥