SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ( ५४ ) तषाद्य - द्वितीय विकल्प संयोगे तुर्यत्रिकल्प निष्पत्तिः - स्यादस्ति च नास्ति चेति, प्रथम तृतीय - विकल्प संयोगे पञ्चमविकल्पनिष्पत्ति: - स्यादस्ति चावक्तव्यश्रेति, द्वितीय तृतीय - विकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चावक्तव्यश्चेति, प्रथम - द्वितीय तृतीय - विकल्प संयोगे सप्तम विकल्प निष्पत्ति:स्यादस्ति च नास्ति चावक्तव्यथेति, तत्राद्येषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते, तदाह देश देशेनेत्यादि, सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं व्याख्येयम् आत्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणम्, तत्र चतुर्थ उभयप्रधानो विकल्पः क्रमेणोभयस्यापि शब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशः तच्च वस्तुनो वैकल्यम्, स्वेन तच्चेन प्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां नरसिंह - नरसिंहत्ववत् समुदायात्मकमात्मरूपमभ्युपगम्याभिधानं विकलादेशः, न तु केवल सिंह - सिंहत्ववदेकात्म कै कत्वपरिग्र हात् यथा च प्रतिपादनोपायार्थपरिकल्पिताने कनीलपीतादिविभागा निर्विभागमनेकात्मकमेकं चित्रं सामान्यरूपमुच्यते तथा च वस्त्वप्यनेकधर्मस्वभावमेकम् दृष्टश्चाभिन्नात्मनोऽर्थस्य भिन्नो गुणो भेदकः परुद्भवान् पटुरासीत् पटुतर ऐपमोऽन्य एवाभिसंवृत्तः, पटुत्वातिशयो गुणः सामान्यपाटवाद् गुणादन्यः
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy