________________
स वस्तुनो भेदं कल्पयति, भिन्नप्रयोजनार्थिना तथाऽs. श्रितत्वात्, अनेकात्मकं चैकत्वमात्मादेः, यतोऽनेकं शुद्धाशुद्धं द्रव्यार्थमाश्रित्य पर्यायनयं चैकात्मनो वृत्तिः, तथात्मकोऽसौ तद्भावभावित्वात, घटमृदात्मकत्ववत् पुरुषपाण्याद्यात्मकत्ववद्वा, अतस्ते तस्यारम्भकत्वाद्भागाः, पुरुषस्येव पाण्यादयो वस्त्वंशमनुभवन्ति, क्रमेण वृत्ताः क्रमयोगपद्याभ्यां चा, चतुर्थे तावत् समुच्चयात्मके न क्रमेण वृत्ताः, पञ्चमषष्ठयोरपचितक्रमयुगपवृत्ताः सप्तमे प्रचितक्रमयोगपद्याभ्यां वृत्ताः संश्वासश्चावक्तव्यश्चत्यनेकवुद्धिबुद्धित्वात, अनेकबुद्धिहि बुद्धिभवति द्रव्यपर्यायेषु सन्सु व्यात्मिका यतोऽनेकां सद्रूषाम. सदूपामवक्तव्यरूपां च बुद्धि भिन्नामिव क्रमवतीमिवाश्रित्याभिन्नकाऽक्रमा वस्तुरूपा वाक्यार्थबुद्धिर्भवति, तस्माद्भेदक्रमप्रतिभासविज्ञानहेतुत्वाद्भागास्ते भवन्त्यत्राविभक्तस्यैकस्यापि वरतुनः, एव श्चानेकस्वभावेऽर्थे सति वक्तुरिच्छावशात् कदाचित्केनचिद्रूपेण वक्तुमिष्यते, विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टच्या, द्रव्यार्थजात्य भेदात् तु सर्वद्रव्यार्थभेदानेवैकं द्रव्यार्थं मन्यते, यदा पर्यायजात्यभेदाच्चैकं पर्यायार्थ सर्वपर्यायभेदान्प्रतिपद्यते तदा त्वविवक्षितस्वजातिभेदत्वात्सकलं वस्त्वेकद्रव्यार्थाभिन्नमेकं पर्यायार्थाभेदोपचरितं तद्विशेषकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः-स्यानित्य इत्यादिस्त्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावकत्वरूपैकार्थाभिधायी, यदा तु द्रव्यपर्यायसामा