________________
(५६)
न्याभ्यां तद्विशेषाभ्यां वा तद्योगपद्येन वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपद्वृत्तं क्रमवृत्तुं च पञ्चमषष्ठसप्तमेधूच्यते तथा विवक्षावशात् तदा तु तथा प्रतिपादयन् विकलादेशः, ते हि द्रव्यपर्यायास्तस्य देशाः तदादेशेनादेश एको ह्यनेकदेश आत्माऽभिधीयते, तत्र द्रव्यार्थसामान्येन तावत् वस्तुत्वेन सन्नात्मा, पार्थसामान्येनावस्तु. त्वेनासन्निति, विशेषस्त्वात्मनि स्वद्रव्यत्वात्मत्वचेतनत्वद्रष्टुत्वज्ञातृत्वमनुष्यत्वादिरनेको द्रव्यार्थभेदः तथा श्रुतप्रतियोगिनः पर्याया असत्त्वाद्रव्यत्वानात्मत्वाचेतनत्वादयः,तद्र्व्यक्षेत्रकाल भावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यार्थादेशात्स्वद्रव्यतया द्रव्यत्वं, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषेश्व घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता, पर्यायादेशाद्घटादिविज्ञानदर्शनभेदा: क्रोधाद्युत्कर्षापकर्षभेदाच, तथाsनन्तकालवृत्तस्ववर्तनाभेदात्कालभेदः, भावतोऽज्ञत्वं क्रोधादिमच्वं च प.वं बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः तैरेव्यपर्यायरूपैर्ववतुमिष्यमाणो नानारूप आत्मोच्यते, भावना तु-स्यादस्ति नास्ति च, द्रव्यार्थभेदेन चैतन्य सामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात् , पर्यायस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटायुपयोगेनासन, चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽ.