________________
( ५७ )
त्माभाव एव स्यात् । एवं सर्वसिद्धान्तेषु पदार्थाः परस्परविरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः। पञ्चमविकल्पस्तु-स्यादस्ति चावक्तव्यश्चात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कश्चिद्व्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्याऽऽत्मद्रव्यसामान्यं तद्विशेष द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुटतरमेतद्विभाव्यते - स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवत्वेन मनुष्यत्वादिना वा, द्रव्यपर्यायसामान्यमुरीकृत्य वस्तुत्वावस्तुत्वसच्चासत्वादिना विशेषेण वा मनुष्यत्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यात्मनस्तदैव विकल्पाः सम्भवन्तीति । षष्ठविकल्पोऽपि त्रिभिरात्ममिद्यशः-स्यान्नास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यत्वरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि सद्भावात् , तत्र नास्तित्वं पर्यायाश्रयम् , स च पर्यायो युगपद्वृत्तः क्रमवृत्तो वा, सहावस्थाप्यविरोधादात्मनो धर्म एककाल एव, यथा चेतनोपयोगवेदनाहर्षसम्यक्त्वहास्यरतिपुरुषवेदायुर्गतिजात्यादिसचद्रव्यात्वा. मूतत्वकतृत्वमोक्तृत्वान्यत्वानादित्वासङ्ख्यातप्रदेशत्वनित्यलादिः। क्रमवर्ती तु क्रोधादिदेवत्वादिबालत्वादि ज्ञानित्वादिः स्वस्थानानेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थी जीवनामा नैवास्ति कश्चिचेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैस्न्तर्यमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः