________________
(५८)
सत्त्वव्यपदेशव्यवहार भाजो भवन्तीति, अतोनास्ति पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशः, नास्तीति तेन रूपेणाभावात्, न पुनः सर्वथैव नास्तित्वं विशिष्टस्याभावस्य विवक्षितत्वात् पर्यायांशः, सर्वार्थज्ञातृत्वात्सर्वव्यापारविनियोगात्सर्ववस्तुत्वेन सन्निति द्रव्यार्थांशः, आभ्यां सह विवक्षायामवाच्य इति द्वितीयशः । अधुना सप्तमचिकल्पञ्चतुर्भिरंशैख्यंशः, कश्चिद्द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषञ्च कञ्चिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्रधान्येन विवक्षितत्वाद्यथा द्रव्यसामान्येन पर्यायसामान्येन च युगपदवक्तव्यः स्यादस्ति च स्यान्नास्ति चावक्तव्यश्वात्मेति । भावना तु द्रव्यार्थात्सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तास्मत्वेन विशेषेण नास्तित्वमतोऽस्ति च नास्ति च स एवात्मा. द्रव्यपर्याय सामान्यसदसत्वाभ्यां युगपदवाच्य इत्येवमर्थानुरोधाद्विवक्षावशाच्च सप्तचैव वचनप्रवृत्तिः, नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात्, एष च मार्गों द्रव्यार्थ पर्यायार्थाश्रयः तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयथार्थशब्दनयरूपेण प्रधाविता: तत्र सङ्ग्रहव्यवहारर्जुसूत्रैरर्थनयैयौं द्रव्यार्थपर्यायार्थी तदाश्रयैषा सप्तभङ्गी, तत्रानपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानमर्थनया वक्त्परिच्छेदविषयाः, ते त्वर्थपृष्ठेनैवार्थं गमयन्ति । शब्दनयास्तु साम्प्रतिकसमभिरूढैवम्भूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूषितविज्ञानत्वाच्छब्दप्रमाणकाः यच्छन्द आह यथा