________________
( ५९ )
च तथैवार्थ इतिशब्दपृष्ठेनैवार्थपरिच्छेदं कुर्वन्ति, अत एव तेष्वभिधानस्वरूपशुद्धिपरा चिन्ता चक्षुर्विमलीकरणाञ्जनवत् । तत्रार्थनयाः सच्चासच्चवर्त्तमानसच्चमात्रैषिणः प्रत्येकात्मकाः संयुक्ताय सप्तविधवचननिर्वचन प्रत्यलाः । विविक्त सच्चमात्रपरिग्रहात्सभ्वसङ्ग्रहः, अन्यासत्वमेव सत्वमिति व्यवहारः, वर्तमानप्रधानत्वाद्वर्त्तमानमेव सत्त्वमृजुसूत्रः, तत्र स्यादस्तीति सङ्ग्रहः १, स्यान्नास्तीति व्यवहारः २, सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३, सङ्ग्रहव्यवहारविभागसंयोगादेव स्यादस्ति च नास्ति च ४, स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः सङ्ग्रह - व्यवहारौ चाविभक्तौ ५ स्यान्नास्त्यवक्तव्यश्चेत्यत्र व्यवहारः सङ्ग्रहव्यवहारौ चाविभक्तौ ६, स्यादस्ति नास्त्यवक्तचेत्यत्र विभक्तौ सहव्यवहारावविभक्तौ च ७ इत्येवमर्थ पर्यायैः सप्तधा वचनव्यवहारः । व्यञ्जनपर्यायाः शब्दनयाः ते त्वभेदमेदद्वारेण वचनमिच्छन्ति शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावामेवाभिन्नमभ्युपैति न जातुचिद् भिन्नलिङ्गं भिन्नवचनं व शब्दं स्त्रीदारास्तथाऽऽपोजलमिति । समभिरूढस्तु प्रत्यर्थ शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थत्वमेवाभिमन्यते घटशक्रादिशब्दानामिवेति । एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापृच्छति - इच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यचित्रालेखनोपयोगपरिणतश्च चित्रकारः, चेष्टारहितस्तिष्ठन्