________________
(६२)
घटो न घटशब्दवाच्यः, तच्छब्दार्थरहितत्वात्, कुटशब्दयाच्यार्थवत् , नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वारोपालादिवत् । एवमभेदभेदार्थवाचिनोऽनेकैकशब्दवाच्यार्थावलम्बिनश्च धब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपवदर्थस्य प्रतिभासका व्यञ्जन. पायसंज्ञकाः" इति ॥ श्रीमन्तो न्यायविशारदा न्यायाचार्या यशोविजयोपाध्यायाः पुनरित्थं सप्तभङ्गीमीमांसां कुर्वन्ति । तत्र तत्र विचारे सम्मतिगाथाश्च प्रमाणयन्ति तथाहिजिनवचनरहस्याभिज्ञानां स्याद्वादप्रमाणराजस्यैवोपादेयत्वेन समभङ्गीस्वरूपमेव स्याद्वादवाक्यं शब्दप्रमाणभावमश्चति यतः शब्दस्थले साकासखण्डवाक्यजन्यसप्तभङ्गयात्मकमहावाक्यमेव निराकाङ्क परिपूर्णाखण्डवस्तुप्रतीत्यात्मकप्रमाजनकत्वात्प्रमाणं, न तु निरपेक्षमेकान्तवाक्यम् , यदुक्तं सम्मतौ "जे वयणिजवियप्पा, संजुजंतेसु होति एएसु । सा ससमयपण्णवणा, तित्थयराऽऽसायणा अण्णा ॥ १-५३ ॥ इति" ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना तीर्थकराशातना अन्या" । इति संस्कृतम् , अस्या अयमर्थःये वचनीयस्याभिधेयस्य विकल्पाः प्रतिपादकशब्दविशेषाः, संयुज्यमानयोरन्योन्यसंबद्धयोभवन्ति, अनयोद्रेव्यास्तिकपर्यायास्तिकनयवाक्ययोः, ते च कथञ्चिन्नित्य आत्मा कथञ्चिदनित्य इत्येवमादयःसा एषा, स्वसमयस्य तत्त्वार्थस्य, प्रज्ञापना निदर्शना, अन्या निरपेक्षनयप्ररूपणा, तीर्थकरस्य तीर्थप्रणेतुः श्रीभगवतो