________________
(६१)
जिनस्य, आशातना अधिक्षेपः, तत्प्ररूपणोत्तीर्णत्वात् , उत्सर्गतः स्याद्वाददेशनाया एष तीर्थकरेण विधानात् , “विभजवायं च वियागरिजा" इत्याद्यागमवचनप्रामाण्यात् । विशिष्टपुरुषमधिकृत्यापवादतस्त्वेकनयदेशनाऽप्यदुष्टा, तदुक्तं सम्मतौ"पुरिसज्जायं तु पडुच्च जाणओ पनवेज्ज अन्नयरं । परिकम्मणानिमित्तं, ठाएहि सो विसेंसपि" ॥ ९.-५४ ॥ पुरुषजात तु प्रतीत्य ज्ञकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं, स्थापयिष्यत्यसौ विशेषमपि” इति संस्कृतम् । अस्या अर्थःपुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं, प्रतीत्य आश्रित्य, ज्ञकः स्याद्वादज्ञः, प्रज्ञापयेदन्यतरदज्ञातम् , परिकर्मनिमित्तं अज्ञातांशसंस्कारपाटनार्थम्, ततः परिकर्मितमतये स्थापयत्यसो स्याद्वादज्ञो विशेषमपि परस्पराविनिर्भागरूपं ततश्चैकनयदेशनाऽपि भावतः स्याद्वाददेशनैवेत्यतः शब्दप्रमाणतया स्याद्वादात्मकसप्तभङ्गी अवश्यं प्रदर्शनीयेति सेत्थं प्रदश्यते-स्यादस्त्येव घटः १, स्यान्नास्त्येव घटः २, स्यादवक्तव्य एव घटः ३, स्यादस्त्येव स्यान्नास्त्येव घटः ४, स्यादस्त्येव स्यादवक्तव्य एव घटः ५, स्यान्नास्त्येव स्यादवक्तव्य एव घटः ६, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घट ७, श्चेति, तत्र गुणीभूनासत्वप्रधानीभूतसत्त्वविवक्षायां प्रथमो भङ्गः १,गुणभूत सत्त्वप्रधानीभूतासत्त्वविवक्षायां द्वितीयो भङ्गः, २, युगपत्सत्त्वासचोभय विवक्षायां तृतीयो भङ्गः३, द्वयोधमयोः प्राधान्येन गुणभावेन वा प्रतिपादने कस्यापि वचसः.