________________
(६२)
सामर्थ्याभावात्, तथाहि - तत्प्रतिपादकं समासवचनं न तावत्सम्भवति यतः उभयप्रधाने प्रकृते अन्य पदार्थप्रधानो बहुव्रीहिर्न स्थितिमासादयति, अव्ययीभावस्य च नैताशेऽथे प्रवृत्तिर्घटते, द्वन्द्वस्तूभय पदार्थप्रधानोऽपि द्रव्यवृत्तिर्नात्र युज्यते, गुणवृत्तिरपि द्वन्द्वो द्रव्याश्रितगुणप्रतिपादक एव तिष्ठत्यादिक्रियाया द्रव्याश्रिताया द्रव्यमन्तरेण गुणाश्रितत्वाभावात्, तथा च प्रकृते प्रधानभूतयोर्गुणयोर्न ततः प्रतिपत्तिसम्भवः, उत्तरपदार्थप्रधानस्तत्पुरुषोऽपि प्रधानभृतयोर्गुणयोः प्रतिपादको न भवत्येव द्विगुरपि सङ्ख्यावाचिपूर्वपदो नात्र क्रमते, गुणाधारद्रव्यविषयः कर्मधारयोऽपि नात्रावकाशं लभते न चैतेभ्यो व्यतिरिक्तः समासः कोऽपि विद्यते यः प्रधानी - भूतास्तित्वनास्तित्वगुणद्वयप्रतिपादको भवेत् । ननु साक्षात्क्रियान्वयो द्रव्य एव न गुणे इति तादृशक्रियान्वयित्वरूपं प्राधान्यं प्रथमभङ्गे नास्त्येवास्तित्वरूपगुणे इति तादृशप्राधान्याश्रयास्तिस्वप्रतिपादको न प्रथमभङ्गो नापि द्वितीयभङ्गस्तादशप्राधान्याश्रयनास्तित्वप्रतिपादको, द्रव्यान्वयव्यवधानेन क्रियान्वयित्वरूपप्राधान्यं यदि विवक्षितं तदा प्रथमभङ्गेऽवभासमानं द्रव्यं वस्तुगत्याऽनन्तधर्मात्मकत्वान्नास्तित्वाकलितभपीति द्रव्यान्वयव्यवधानेन क्रियान्वयित्वरूप प्राधान्यं नास्तित्वेऽपीति प्रथमभङ्गेऽपि द्वितीयभङ्गलक्षणमापद्येत, एवं द्वितीयभङ्गेऽप्युपसर्जनीभूतस्यास्तित्वस्य द्रव्यान्वयव्यवधानेन क्रियान्वयित्वलक्षणं प्राधान्यं समस्तीति प्रथमभङ्गलक्षणं तत्राप्यति