________________
(६३)
प्रसक्तं स्यात्, यदि च नोक्तक्रियान्वयित्वलक्षण प्राधान्य विवक्षित किन्तूत्कटतात्पर्यविषयत्वरूपमेव तद्विवक्षितं तच्च प्रथमभङ्गेऽस्तित्वस्यैव द्वितीयभङ्गे नास्तित्वस्यैवेति नातिप्रसङ्गः, तर्हि द्वन्द्वकर्मधारययोरपि तात्पर्यविषयत्वलक्षणं प्राधान्यं निरुक्तगुणद्वयस्य समस्तीति प्राधान्येन युगपद्गुणद्वयवाचकत्वं द्वन्द्वकर्मधारययोस्स्यादेवेति चेत्, मैवं, द्वन्द्वे द्विवचनेन भेदोपस्थिती निरवयवप्रतीतिर्न सम्भवति कर्मधारये च विशेष्यतयाऽभ्यर्हितत्वेन द्रव्यं एवोत्कटतात्पर्यविषयमित्याशयादिति न समासवाक्यं प्रधानीभूतयुगपदस्तित्वनास्तित्वगुणद्वयप्रतिपादकम् ।व्यासवाक्यमपि त्यसम्भिन्नार्थमेवेति समासात्मकवृत्तेस्तदप्रतिपादकत्वे व्यासवाक्यस्यापि तदप्रतिपादकत्वमेव, यन पदान्तरार्थान्वितार्थकमेतादृशं, केवलं पदं वाक्यं वा वृत्तिसम्भिन्नार्थ नहि लोकसिद्धं, यच्च लोकसिद्धं पदं वाक्यं वा तत्परस्परापेक्षद्रव्यादिविषयत्वान्न युगपत्प्रधानीभूतास्तित्वनास्तित्वगुणद्वयप्रतिपादकम् । शतशानचयोः सङ्केतितस्य सत्पदस्य वाच्यत्ववत कस्यचित्पदस्य तादृशगुणद्वयसङ्केतितस्य वाच्यत्वं गुणद्वये सम्भावितमपि विकल्पप्रभवशब्दवाच्यत्वमेव स्यात् , विकल्पद्वयं च युगपन्न भवतीति तत्प्रभवशब्दवाच्यतापि युगपत्प्रधानीभूतगुणद्वये न सम्भवतीति । यद्यपि समूहालम्बनात्मकं एक एव विकल्पो युगपद्गुणद्वयविषयकः, तथापि तत्प्रभवं पदं बुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितनानाशक्यतावच्छेदककत्वेन पर