________________
(६४)
मार्थतो नानार्थस्थानीयमतस्ततः प्रकरणादिनियन्त्रितप्रति. नियतैकार्थबोधस्यैवैकदा सम्भवः । यदपि वैकल्पिकपदम्य मिलितोभयबोधकत्वस्वाभाव्याधुगपदुभयवाचकत्वमिति तत्पदवाच्यत्वं तथाभूतगुणद्वयस्य सम्भाव्यत इति तदपि न रमणीयं, सदसदुभयसाङ्केतिकपदस्य पुष्पदन्तादिवद् द्वित्व. विश्रान्तत्वेनैकत्वावच्छिन्ने द्वित्वावच्छिन्नान्वयस्य निराकाङ्क्षवादेवावाच्यत्वसिद्धेः, अत एव वस्त्वादिपदानि जैनैः सदसदु भयात्मकैकजात्यन्तरे सङ्केत्यन्ते, न तु सदसतोरित्यवधेयम् । वस्तुतः एकपदजनितप्रातिस्विकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाविषयत्वेनावक्तव्यत्वं प्रकृतेऽव्याहतं, अत एवं कर्मधारयाख्यं सामासिकमेकपदमादायापि न दोषः, तज्ज. न्यवोधे उभयनिरूपितकविशेष्यताऽभ्युपगमेन यथोक्तावाच्यस्वाक्षतेरिति दिक। ननु विधिस्वरूपेणोपस्थिते न प्रतिषे. धान्वयस्सम्भवतीति घटशब्दप्रवृत्तिनिमित्तभूतं यद्घटत्वं विधिरूपं तदात्मनाऽऽलिङ्गिते घटात्मके धर्मिणि पटाद्यर्थान्तरप्रतिषेधोऽसम्बद्ध इति घटः पटत्वेन नास्तीति द्वितीयभङ्गो न सम्भवतीति चेत्, न, यतः अघटस्य पटादेभिन्नत्वादेव घटे घटत्वं भवति, अन्यथा घटवत्पटेऽपि घटशब्दप्रवृत्ती तन्निमित्तं घटत्वं घटमात्रगतं न भवेदनो घटे घटत्वं प्रति. पादयन् घटशब्दस्तदैव सङ्गतिमङ्गति यदि घटभिन्नपटादेस्तत्र निषेधप्रतिपादकेन घटः पटत्वेन नास्तीत्येवम्भूतवच नेनैकवाक्यतापन्नो भवेदिति विधिरूपे घटे सम्बद्ध एव पटाद्यर्थ