________________
(६५) प्रतिषेध इति द्वितीयभङ्गस्तथाभूतार्थप्रतिपादकोऽवश्यमेव प्रयोक्तव्य इति । ननु स्वद्रव्यादिना सन्नेव घट इति प्रथमभङ्गप्रतिपाद्येन स्वद्रव्यादिना सदात्मकेन घटेन समानसंवित्संवेद्यत्वात्परद्रव्यादिनाऽसद्भूतो घट इति सोऽपि प्रथमभङ्गत एवावभासत इति न तदवबोधनाय द्वितीयभङ्गरसफलता भजत इति चेत् , न, यद्धि समानसंविसंवेद्यं तदनियन्त्रितविषयके मानसबोधे भासत इति तत्रैव समानसंविसंवेद्यत्वं तन्त्रम् , न तु शाब्दबोधे, तत्र तु यस्य शब्दादुपस्थितिस्तस्यैव प्रकारमुद्रया भानः, "शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते” इति, एवञ्च परद्रव्यादिना घटादेरसत्वं न प्रथमभङ्गेन बोधयितु शक्यं, तत्र तद्बोधकपदाभावादतस्तद्वोधनार्थ द्वितीयमङ्ग आवश्यकः।
___ अत्र स्यादवक्तव्य इति तृतीयभङ्गस्य षोडशभिः प्रकारैस्समर्थनमुपदश्यते तत्र प्रथमद्वितीयभङ्गो सामान्येन सत्त्वप्राधान्यविवक्षया सामान्येनासत्त्वप्राधान्यविवक्षया सम्भ. वतः, युगपत्तदुभयप्राधान्य विवक्षया तथा विधायकपदाभावात् स्यादवक्तव्य इति तृतीयमङ्गो व्यावर्णितः । प्रथमभङ्गप्रयोगस्यावश्यकत्वञ्च दर्शितम् , सर्व सर्वात्मकं कार्यकारणयोस्तादात्म्येन सत्त्वरजस्तमसां साम्यावस्थालक्षणमूलप्रकृतितत्त्वस्य पारिणामिनः साक्षात्परम्परया वा परिणामरूपमेव महदहकारादितच्यामिति सर्वस्य विकारस्य कार्यभूतस्य कारणीभूतप्रकृत्यात्मकत्वं, एवञ्च “तदभिन्नाभिन्नस्य तदभिन्नत्व मिति"